Enter your Email Address to subscribe to our newsletters

गांधीनगरम्, 14 अप्रैलमासः (हि.स.) द्रौपदी मुर्मु अद्य गुजरात-यात्रायाः अवसरि लोक-भवनं गत्वा भारतीयसंविधानस्य निर्माता डॉ. भीमराव रामजी आम्बेडकर इत्यस्य १३५तम-जयन्त्यां तस्य चित्रे पुष्पाञ्जलिं अर्पितवती। अस्मिन् अवसरि आचार्य देवव्रत राज्यपालः अन्ये च वरिष्ठ-अधिकारी उपस्थिताः आसन्। राज्यपालोऽपि तस्य चित्रे पुष्पाणि अर्पितवान्।
उल्लेखनीयम् यत् महू-नाम्नि स्थाने मध्य प्रदेश-राज्ये महार-कुले जातः बाबासाहेबः डॉ. भीमराव रामजी आम्बेडकर कोलंबिया विश्वविद्यालय तथा लंदन स्कूल ऑफ इकोनॉमिक्स इत्योः अर्थशास्त्रे डॉक्टरेट-उपाधिं प्राप्तवान्। सः दलितानां विरुद्धं सामाजिक-भेदभावं अस्पृश्यतां च विरोधयन् आजीवनं संघर्षं कृतवान्। सः नारीणां श्रमिकाणां च अधिकारान् अपि समर्थितवान्।
भारतस्य संविधानस्य प्रारूप-समित्याः अध्यक्षरूपेण सः आधुनिक-भारतस्य आधार-निर्माणे अत्यन्तं महत्वपूर्णां भूमिकां निर्वहति स्म। जीवनस्य अन्तिमेषु वर्षेषु सः हिन्दू-धर्मं त्यक्त्वा बौद्ध-धर्मं स्वीकृतवान्। सः १९९० तमे वर्षे मरणोत्तरं देशस्य सर्वोच्च-नागरिक-पुरस्कारः ‘भारत रत्न’ इत्यनेन सम्मानितः।
बाबासाहेबः प्रतिवर्षं १४ अप्रैल-दिने ‘आम्बेडकर जयंती’ अथवा ‘समानता-दिवसः’ इति रूपेण स्मर्यते।
हिन्दुस्थान समाचार