Enter your Email Address to subscribe to our newsletters

जयपुर-नगरम्, १४ अप्रैलमासः (हि.स.)। भारतीय-रेलवे-संस्थायाः उपक्रमः आईआरसीटीसी श्रद्धालूनां याचनां दृष्ट्वा ‘पुरी-गङ्गासागर-अयोध्या-धाम-यात्रा’ कृते विशेषं ‘भारत-गौरव-पर्यटन-रेलयानं’ सञ्चालयितुं निर्णयं कृतवान्। एतत् रेलयानं ९ मई २०२६ तिथौ श्रीगंगानगर-नगरात् प्रस्थितं भविष्यति।
आईआरसीटीसी-जयपुरस्य अपर-महाप्रबन्धकः योगेंद्रसिंहगुर्जर: अवदत् यत् एषा ११-दिवसीया यात्रा श्रीगंगानगरात् आरभ्य हनुमानगढ़, चूरू, सीकर, रिंगस, जयपुर, भरतपुर, मथुरा, आगरा कैंट, ग्वालियर, झांसी तथा कानपुर इत्यादि स्थानानि गत्वा सञ्चालिताऽस्ति।
यात्राकाले श्रद्धालवः जगन्नाथ धाम, कोणार्कसूर्यमंदिरम्, गंगासागरतीर्थ:, कालीघाटमंदिरम्, बैद्यनाथधाम, महाबोधीमंदिरम्, विष्णुपदमंदिरम्, काशीविश्वनाथमंदिरम् इत्यादिभि: सह गङ्गा-आरार्तिकी तथा रामललामंदिरम् एवं हनुमानगढ़ी इत्यादिनां प्रमुख-धार्मिक-स्थलानां दर्शनं करिष्यन्ति।
सः अवदत् यत् रेलयाने तृतीय-श्रेणी-एसी-वर्गा:, आधुनिक-भोजन-रसोई-यानं (किचन-कार्) तथा जैव-शौचालयाः (बायो-टॉयलेट्) इत्यादयः सुविधाः उपलब्धाः भविष्यन्ति। यात्रिणां सौविध्यर्थं ‘स्टैण्डर्ड’ तथा ‘कंफर्ट’ इति द्वे श्रेण्यौ निर्धारिते स्तः।
‘स्टैण्डर्ड’ श्रेण्याः शुल्कं २७,८९० रूप्यकाणि निर्धारितानि सन्ति, यस्मिन् एसी-रेलयात्रा, नॉन-एसी-निवासः तथा स्थानीय-परिवहनार्थं नॉन-एसी-बसयानस्य सुविधा अन्तर्भवति। ‘कंफर्ट’ श्रेण्याः शुल्कं ३२,०६५ रूप्यकाणि अस्ति, यस्मिन् एसी-निवासः तथा एसी-बसयानस्य सुविधा प्रदीयते।
तथा ११ मई तिथौ गया-नगरं प्राप्य महाबोधी मंदिर तथा विष्णुपदमंदिरदर्शनं करिष्यन्ति। अनन्तरं १२ मई तिथौ पुरी-नगरस्य जगन्नाथ धाम, १३ मईतिथौ कोणार्कसूर्यमंदिरम्, १४ मईतिथौ कोलकाता-नगरं प्राप्य गंगासागर-तीर्थदर्शनं करिष्यन्ति। ततः १५ मईतिथौ कालीघाटमंदिरम्, १६ मईतिथौ जसडीह-स्थिते बैद्यनाथधाम, १७ मईतिथौ वाराणसी-नगरस्य काशीविश्वनाथमंदिरेण सह गङ्गा-आरार्तिकी, तथा १८ मईतिथौ अयोध्या-नगरस्य रामललामंदिरं एवं हनुमानगढ़ीदर्शनं करिष्यन्ति। यात्रा १९ मईतिथौ पुनः श्रीगंगानगरं प्रत्यागत्य समाप्तिं गमिष्यति।
आईआरसीटीसी श्रद्धालून् एतस्य विशेष-तीर्थ-यात्रायाः लाभं ग्रहीतुं आह्वानं कृतम्।
हिन्दुस्थान समाचार / अंशु गुप्ता