सेवामाध्यमेन समाजस्य अन्तिमव्यक्तिं यावत् प्राप्स्यति सुविधा - राधेश्यामः
कानपुरम्, 14 अप्रैलमासः (हि.स.)। सेवा सनातनसंस्कृतेः आधारशिला वर्तते, अस्याः उद्देश्यं च समाजस्य अन्तिमव्यक्तिं यावत् सहयोगं संवेदनां च प्रापयितुम् अस्ति। समरससमाजस्य निर्माणाय आपसी-सहभागिता अतीव आवश्यकी वर्तते। एतानि वचनानि मङ्गलवासरे क्षेत्रसेवा
कार्यक्रम के दौरान लिया गया छायाचित्र


कानपुरम्, 14 अप्रैलमासः (हि.स.)।

सेवा सनातनसंस्कृतेः आधारशिला वर्तते, अस्याः उद्देश्यं च समाजस्य अन्तिमव्यक्तिं यावत् सहयोगं संवेदनां च प्रापयितुम् अस्ति। समरससमाजस्य निर्माणाय आपसी-सहभागिता अतीव आवश्यकी वर्तते। एतानि वचनानि मङ्गलवासरे क्षेत्रसेवाप्रमुखेण राधेश्यामेन उक्तानि।

​विश्वहिन्दूपरिषदः कानपुरविभागस्य उत्तर-दक्षिणजनपदयोः सेवाविभागेन बस्तिषु, नगरेषु, मन्दिरप्राङ्गणेषु च नि:शुल्क-स्वास्थ्यशिविराणि आयोजितानि। एतेषां शिविराणाम् उद्देश्यं समाजस्य विभिन्नवर्गेभ्यः स्वास्थ्यसुविधानां प्रदापयितुम् आसीत्।

​शिविरेषु 'मेडिकल कॉलेज' इत्यस्य चिकित्सकैः शताधिकानां जनानां स्वास्थ्यपरीक्षणं कृतम्। रुग्णेभ्यः आवश्यकपरामर्शदानेन सह औषधानां वितरणमपि कृतं, येन जनेषु स्वास्थ्यं प्रति जागरूकता वर्धिता।

​अस्मिन् कार्यक्रमे प्रान्तसेवाप्रमुखः नरेन्द्रः, जिलाध्यक्षः सुशीलः, जिलामन्त्री युवराजः, अशोक सिंहः, प्रान्तसेवाटोलीसदस्यः उमेशः, जिलासमरसताप्रमुखः राजकुमारः, जिलासेवाप्रमुखः किशनः, शीलू, रजनी, शशिः, हर्षितः, राहुलः, सूरजः इत्यादयः अन्ये कार्यकर्तारः उपस्थिताः आसन्।

​अस्मिन्नेव क्रमे दक्षिणजनपदस्य रविदासपुरमबस्त्यां, गुजैनीक्षेत्रे च डॉक्टर राजेशस्य तथा उत्कर्ष-चिकित्सालयस्य दलस्य सहयोगेन विशेषस्वास्थ्यशिविरम् आयोजितं, यस्मिन् विशालायां संख्यायां स्थानीयजनाः लाभान्विताः अभवन्।

​अस्मिन् अवसरे क्षेत्रसेवाप्रमुखः राधेश्यामः, प्रान्तसेवाप्रमुखः नरेन्द्रः, सङ्गठनमन्त्री गोपालः, जिलामन्त्री नितिन जागरानी, नगराध्यक्षः रविः, नगरमन्त्री ऋषभः, शैलेन्द्रः, अजीतः इत्यादयः बहवः कार्यकर्तारः उपस्थिताः आसन्।

​एतेषाम् आयोजनानां माध्यमेन समाजे सहयोगस्य जागरूकतायाः च सन्देशः प्रदत्तः।

हिन्दुस्थान समाचार