ऊना-जनपदे ४७तमी राष्ट्रीय-युवा-खो-खो-चैम्पियनशिप-स्पर्धा आयोजिता भविष्यति
मण्डी-नगरम्, १४ अप्रैलमासः (हि.स.)। हिमाचल प्रदेश-राज्यस्य ऊना-जनपदे वर्षे २०२६ तमे ४७तमी राष्ट्रीय-युवा-खो-खो-चैम्पियनशिप-स्पर्धा आयोजिता भविष्यति। एषः निर्णयः हिमाचल-प्रदेश-खो-खो-संघस्य सभायां गृहीतः। एषा सभा मंगलवासरे ऊना-नगरस्य स्व-सदने संघस्य
उप मुख्यमंत्री मुकेश अग्निहोत्री से मुलाकात करते हुए  अभिषेक ठाकुर व भारतीय खो-खो महासंघ के संयुक्त सचिव


मण्डी-नगरम्, १४ अप्रैलमासः (हि.स.)। हिमाचल प्रदेश-राज्यस्य ऊना-जनपदे वर्षे २०२६ तमे ४७तमी राष्ट्रीय-युवा-खो-खो-चैम्पियनशिप-स्पर्धा आयोजिता भविष्यति। एषः निर्णयः हिमाचल-प्रदेश-खो-खो-संघस्य सभायां गृहीतः। एषा सभा मंगलवासरे ऊना-नगरस्य स्व-सदने संघस्य प्रदेशाध्यक्षस्य अभिषेकठाकुर-महाशयस्य अध्यक्षतायाम् आयोजिताभूत्, यस्याम् भारतीय खो-खो महासंघ-संघस्य संयुक्त-सचिवः एल.आर.वर्मा विशेषरूपेण सहभागी अभवत्। ये पदाधिकारिण: सभायां उपस्थिताः न आसन्, ते गूगलमीट्-माध्यमेन सभायां सम्बद्धाः आसन्।

सभायां सूचितं यत् भारतीय-खो-खो-महासंघेन वर्षस्य २०२६ तमे ४७तम्या: राष्ट्रीय-युवा-खो-खो-चैम्पियनशिप-स्पर्धाया: आतिथ्यं हिमाचल-प्रदेशाय प्रदत्तम् अस्ति। अस्मिन् अवसरे उपस्थितैः सर्वैः पदाधिकारीभिः सर्वसम्मत्या एषा चैम्पियनशिप् ऊना-जनपदे आयोजयितुं निर्णयः कृतः। एषा प्रतियोगिता १ अक्तूबरतः १२ अक्तूबरपर्यन्तं आयोजयितुं प्रस्तावितम् अस्ति।

संघस्य सभायां सर्वेभ्यः जनपद-खो-खो-संघेभ्यः अनुरोधः कृतः यत् ते स्व-स्व-जनपदेषु सर्वेषां वर्गाणां जनपद-स्तरीय-खो-खो-प्रतियोगिताः सितम्बर-मासपर्यन्तं आयोजयितुं सुनिश्चितं कुर्वन्तु, यतः क्रीडकेभ्यः राष्ट्रीय-स्तरीय-प्रतियोगितायाः कृते उत्तम-प्रस्तुत्याः अवसरः लभेत।

सभायां एतदपि निर्णीतं यत् यदि कश्चन क्रीडकः कस्यचित् अनधिकृत-खो-खो-संघस्य पक्षे क्रीडन् दृश्यते, तर्हि सः हिमाचल-प्रदेश-खो-खो-संघेन निष्कास्य खो-खो-क्रीडायाः निषिद्धः कर्तुं शक्यते। अतिरिक्ततया प्रदेशे सञ्चाल्यमानाः सर्वाः खो-खो-अकादम्यः स्व-पञ्जीकरणं कर्तुं निर्देशिताः। ये जनाः नूतन-अकादमीं प्रारब्धुम् इच्छन्ति, तेऽपि हिमाचल-प्रदेश-खो-खो-संघात् अनापत्ति-प्रमाणपत्रं प्राप्य एव पञ्जीकरणं कुर्वन्तु।

सभायाः अनन्तरं संघस्य प्रतिनिधिमण्डलं हरोली उत्सव-अवसरे उपमुख्यमन्त्री मुकेश-अग्निहोत्री-महाशयं प्रति अपि मिलितवन्तः, तथा राष्ट्रीय-चैम्पियनशिप-स्पर्धाया: सफल-आयोजनाय सहयोगं याचितवन्तः। अस्मिन् विषये उपमुख्यमन्त्रिणा राज्य-सर्वकारस्य पक्षतः सर्वथा सम्भवः सहयोगः दास्यते इति आश्वासनं दत्तम्।

हिन्दुस्थान समाचार / अंशु गुप्ता