Enter your Email Address to subscribe to our newsletters

लखनऊ, 14 अप्रैलमासः (हि.स.)। उत्तरप्रदेशस्य भदोहीजनपदनिवासिनी पप्पूदेवी पारम्परिककृषेः अतिरिक्तं योगीसरकारस्य उत्तरप्रदेशराज्यग्रामीणआजीविकामिशनस्य साहाय्येन कुक्कुटाण्डसदृशकवक-उत्पादनं (मशरूमउत्पादनम्) आरब्धवती। अधुना तस्याः वार्षिकआयः अष्टलक्षात् दशलक्षरूप्यकपर्यन्तं प्राप्तवती अस्ति। एतत् मिशनम् अधुना प्रदेशस्य ग्रामीणमहिलानां कृते आर्थिकस्वातन्त्र्यस्य स्वावलम्बनस्य च दृष्ट्या ‘संजीवनी’ इव सिद्धं जातम्।
भदोहीजनपदे यत्र अधिकांशपरिवाराः पैतृककृषौ एव निर्भराः सन्ति, तत्र पप्पूदेव्याः नूतनमार्गे गन्तुं निश्चयः कृतः। उत्तरप्रदेशराज्यग्रामीणआजीविकामिशनस्य तथा ‘डेवलपमेंटअल्टरनेटिव्स’ इत्यस्य सम्यग्मार्गदर्शनम् तस्याः स्वप्नाय पक्षा इव अभवत्। तया स्वसञ्चितधनात् प्रायः द्विलक्षपञ्चाशत्सहस्ररूप्यकाणि निवेशितानि, पञ्चाशत्सहस्ररूप्यकाणि ऋणरूपेण गृहीत्वा च मशरूमउत्पादनकार्यं प्रारब्धम्।
अल्पेन स्थानेन सीमितसंसाधनैः च आरब्धम् एतत् उपक्रमः अधुना उत्तमलाभप्रदव्यवसाये परिवर्तितः अस्ति। विशेषतया पप्पूदेव्याः एषा सफलता केवलं तस्याः परिवारस्य आर्थिकस्थितेः उन्नतिपर्यन्ता नास्ति, सा अधुना स्वग्रामस्य अन्याभ्यः महिलाभ्यः अपि रोजगारं ददाति। तस्याः एषः आदर्शः स्वयं सहाय्यसमूहानां ग्रामीणमहिलानां च कृते महान् प्रेरणास्रोतः अभवत्।
पप्पूदेव्याः मतम् अस्ति यत् यदि महिलाभ्यः सम्यक् प्रशिक्षणं तथा शासकीययोजनानां समर्थनं लभ्येत, तर्हि ताः स्वरोजगारक्षेत्रे महान् सफलतां प्राप्तुं शक्नुवन्ति। योगीसरकारस्य एतैः प्रयासैः प्रदेशे महिला उद्यमिता ग्रामीण-अर्थव्यवस्था च नवां दृढतां प्राप्नोति।
---------------
हिन्दुस्थान समाचार