हरिद्वार कुंभ स्नानस्य तिथयो घोषिताः, मेष संक्रांतिः 14 अप्रैल 2027 तमे दिनाङ्के भविष्यति प्रमुखम् अमृतस्नानम्
हरिद्वारम्, 14 अप्रैलमासः (हि.स.)। धर्मनगरे आगामिवर्षे भविष्यतः कुम्भपर्वणः स्नानतिथयः कुम्भमेलाप्रशासनेन घोषिताः। कुम्भस्य प्रमुखम् अमृतस्नानं १४ एप्रिल् २०२७ तिथौ मेषसंक्रान्त्यां भविष्यति। कुम्भस्नानपर्वणः तिथीनां विषये सूचना दत्वा कुम्भमेलाध
हर की पैड़ी का प्रतीकात्मक चित्र


हरिद्वारम्, 14 अप्रैलमासः (हि.स.)।

धर्मनगरे आगामिवर्षे भविष्यतः कुम्भपर्वणः स्नानतिथयः कुम्भमेलाप्रशासनेन घोषिताः। कुम्भस्य प्रमुखम् अमृतस्नानं १४ एप्रिल् २०२७ तिथौ मेषसंक्रान्त्यां भविष्यति।

कुम्भस्नानपर्वणः तिथीनां विषये सूचना दत्वा कुम्भमेलाधिकारी सोनिका उक्तवती यत् १४ एप्रिल् २०२७ तिथौ मेषसंक्रान्त्यां प्रमुखम् अमृतस्नानं भविष्यति। तस्य अतिरिक्तं महाशिवरात्रेः अमृतस्नानं ६ मार्च २०२७ तिथौ, फाल्गुनामावास्यायाः अमृतस्नानं ८ मार्च २०२७ तिथौ च भविष्यति।

एतेषां त्रयाणां प्रमुखस्नानानां अतिरिक्तं अन्याः अपि कुम्भस्नानतिथयः निर्धारिताः सन्ति— १४ जनवरी २०२७ मकरसंक्रान्तिः,

६ फरवरी २०२७ मौनी अमावास्या,

११ फरवरी २०२७ वसन्तपञ्चमी,

२० फरवरी २०२७ माघपूर्णिमा,

७ एप्रिल् २०२७ नवसंवत्सरः,

१५ एप्रिल् २०२७ श्रीरामनवमी,

२० एप्रिल् २०२७ चैत्रपूर्णिमा च।

एतेषु सर्वेषु दिनेषु अपि कुम्भपर्वणि स्नानस्य विशेषमहत्त्वं भविष्यति।

---------------

हिन्दुस्थान समाचार