कुम्भ-मेलापक-२०२७-इत्यस्य आयोजनायाः सज्जा: तीव्रतां गताः, वैसाखी-पर्वणि स्नानस्य तिथयः घोषिताः
हरिद्वार-नगरम्, १४ अप्रैलमासः (हि.स.)। कुम्भ-मेलापक-२०२७-इत्यस्य भव्य-सुस्थित-आयोजनं प्रति प्रशासनं सज्जासु अधिकं वेगं दत्तवान्। धर्मनगरे अग्रिमवर्षे १४ अप्रैलतिथौ मेष-सङ्क्रान्त्याः अवसरः प्रमुख-अमृत-स्नानम् (शाही-स्नानम्) आयोज्यते। अस्याः दृष्ट्य
िनरीकाणा करते हुए््ष्


हरिद्वार-नगरम्, १४ अप्रैलमासः (हि.स.)। कुम्भ-मेलापक-२०२७-इत्यस्य भव्य-सुस्थित-आयोजनं प्रति प्रशासनं सज्जासु अधिकं वेगं दत्तवान्। धर्मनगरे अग्रिमवर्षे १४ अप्रैलतिथौ मेष-सङ्क्रान्त्याः अवसरः प्रमुख-अमृत-स्नानम् (शाही-स्नानम्) आयोज्यते। अस्याः दृष्ट्या मेला-प्रशासनम् सर्वाणि कार्याणि ‘काउण्टडाउन’-रीत्या स्थापयित्वा समयबद्धतया पूर्णतां नेतुं प्रक्रियां तीव्रीकृतवान्।

वैसाखी-पर्वणः पावनावसरे मेला-अधिकारिणी सोनिका हर-की-पैड़ी-स्थले गङ्गा-स्नानं कृत्वा माता गङ्गां प्रति आगामी-कुम्भ-मेलापकस्य सफल-सुरक्षित-सुचारु-आयोजनाय प्रार्थनां कृतवती। ततः सा नगरस्य प्रमुख-क्षेत्राणि निरीक्ष्य तयारीणां स्थलीय-स्थितेः मूल्यांकनं कृतवती।

निरीक्षण-समये मेला-अधिकारिणी हर-की-पैड़ी-क्षेत्रं सह हिल-बाइपास-मार्गः, मनसा-देवी-पादचारी-मार्गः, मोतीचूर-रेलवे-स्थानकम्, औद्योगिक-क्षेत्र-मार्गः, हरिद्वार-रेलवे-स्थानक-मार्गः, सिंहद्वारम्, कांवड़-पटरी-मार्गः, शंकराचार्य-चौकः, कनखल-क्षेत्रम्, आस्था-पथः तथा रोड़ी-बेलवाला-इत्यादीनि महत्त्वपूर्ण-स्थानानि अवलोकितवती। अस्मिन् अवसरे सा घाटानां, सेतूनां, मार्गाणां, पार्किंग-स्थलानां तथा पादचारी-मार्गाणां स्थितेः सूक्ष्म-निरीक्षणं कृतवती। सह भीड-प्रबन्धनं, यातायात-व्यवस्था तथा श्रद्धालूनां सुविधासम्बद्धाः सज्जा: अपि समीक्षिताः।

निरीक्षणानन्तरं मेला-अधिकारिणी सम्बन्धित-विभागान् स्पष्ट-निर्देशान् अददात् यत् कांवड़-पटरी-मार्गस्य मरम्मत-कार्यं शीघ्रं पूर्णं क्रियताम्, हिल-बाइपास-मार्गस्य मरम्मतेः कार्ये वेगः वर्ध्यताम्, मनसा-देवी-पादचारी-मार्गस्य पुनर्निर्माणं समयबद्धतया क्रियताम्, अतिक्रमण-निर्मूलनं च प्रभावी-रीत्या सुनिश्चितं क्रियताम्। सा अवदत् यत् श्रद्धालूनां सुरक्षा, स्वच्छता, सुगमता तथा सुविधा प्रशासनस्य सर्वोच्च-प्राथमिकता अस्ति, तथा कस्मिन्नपि स्तरे असावधानी न सह्यते।

मेला-अधिकारिणी अवदत् यत् कुम्भ-मेलापकस्य सर्वेषां कार्याणां कृते निर्धारित-समयसारिण्याः अनुसारं सर्वासां कार्यदायी-संस्थानां नियमित-समीक्षा भविष्यति तथा प्रगतेः सतत-निरीक्षणं सुनिश्चितं भविष्यति। निरीक्षण-समये हरिद्वार-नगर-निगमस्य आयुक्तः नन्दन-कुमारः, उप-मेला-अधिकारिणः मनजीत-सिंहः सहिताः विभिन्न-विभागानां कार्यदायी-संस्थानानां च अधिकारिण: उपस्थिताः आसन्।

कुम्भ-मेलापक-२०२७-इत्यस्य प्रमुख-स्नान-पर्वाणि—

१४ जनवरी २०२७ — मकर-सङ्क्रान्तिः६ फरवरी २०२७ — मौनी-अमावास्या११ फरवरी २०२७ — वसन्त-पञ्चमी२० फरवरी २०२७ — माघ-पूर्णिमा६ मार्च २०२७ — महाशिवरात्रिः (अमृत-स्नानम्)८ मार्च २०२७ — फाल्गुन-अमावास्या (अमृत-स्नानम्)७ अप्रैल २०२७ — नव-संवत्सरः१४ अप्रैल २०२७ — मेष-सङ्क्रान्तिः (प्रमुख-अमृत-स्नानम्)१५ अप्रैल २०२७ — श्रीराम-नवमी२० अप्रैल २०२७ — चैत्र-पूर्णिमा

हिन्दुस्थान समाचार / अंशु गुप्ता