उपराष्ट्रपति, प्रधानमंत्री आम्बेडकर जयंती पर पहुंचे प्रेरणास्थलं, पुष्पांजलिः अर्पितः
नव दिल्ली, 14 अप्रैलमासः (हि.स.)। बाबासाहेबस्य डॉ. भीमराव रामजी आम्बेडकर इत्यस्य १३५तम-जयन्त्याः अवसरि उपराष्ट्रपतिः सी. पी. राधाकृष्णन, प्रधानमन्त्री नरेन्द्र मोदी, मल्लिकार्जुन खरगे च अन्ये नेतारः अपि मङ्गलवासरे संसत्-परिसरे स्थिते “प्रेरणा-स्थ
बाबा साहब डॉ. भीमराव अम्बेडकर प्रेरणा स्थल।


नव दिल्ली, 14 अप्रैलमासः (हि.स.)।

बाबासाहेबस्य डॉ. भीमराव रामजी आम्बेडकर इत्यस्य १३५तम-जयन्त्याः अवसरि उपराष्ट्रपतिः सी. पी. राधाकृष्णन, प्रधानमन्त्री नरेन्द्र मोदी, मल्लिकार्जुन खरगे च अन्ये नेतारः अपि मङ्गलवासरे संसत्-परिसरे स्थिते “प्रेरणा-स्थले” समागत्य तस्मै पुष्पाञ्जलिं अर्पितवन्तः। अस्मिन् आधिकारिके कार्यक्रमे बहवः केन्द्रीय-मन्त्रिणः, सांसदाः अन्ये च नेतारः अपि सहभागिनः आसन्।

प्रधानमन्त्रिणा उक्तं यत् राष्ट्रनिर्माणे बाबासाहेबस्य प्रयासाः अत्यन्तं प्रेरणादायकाः सन्ति। तस्य जीवनं कर्म च पीढीनां कृते न्यायपूर्णस्य प्रगतिशीलस्य च समाजस्य निर्माणाय निरन्तरं प्रेरणां ददाति।

उल्लेखनीयम् यत् डॉ. भीमराव आम्बेडकरस्य जन्म १४ अप्रैल १८९१ तमे वर्षे अभवत्। सः भारतीयसंविधानस्य मुख्य-शिल्पकारः, प्रख्यातः विधिवेत्ता समाज-सुधारकः च आसीत्। सः वंचित-वर्गाणां अधिकारार्थं महत्वपूर्णं संघर्षं कृतवान्।

हिन्दुस्थान समाचार