बाबा साहब डॉ भीमराव अम्बेडकरस्य जयंत्यां मुख्यमंत्री कृतवान् नमनम्
पटना, 14 अप्रैलमासः (हि.स.)। मुख्यमन्त्री नीतीशकुमारः भारतरत्नं बीआरअंबेडकरं तस्य जयन्त्याः अवसरे नमस्कृतवान्। मुख्यमन्त्री स्वसन्देशे उक्तवान् यत्—भारतीयसंविधानस्य निर्माता, महान् समाजसुधारकः, चिन्तकः, सामाजिकन्यायस्य पुरोधा च भारतरत्नः डॉ. भी
बाबा साहब डॉ भीमराव अम्बेडकरस्य जयंत्यां मुख्यमंत्री कृतवान् नमनम्


पटना, 14 अप्रैलमासः (हि.स.)।

मुख्यमन्त्री नीतीशकुमारः भारतरत्नं बीआरअंबेडकरं तस्य जयन्त्याः अवसरे नमस्कृतवान्।

मुख्यमन्त्री स्वसन्देशे उक्तवान् यत्—भारतीयसंविधानस्य निर्माता, महान् समाजसुधारकः, चिन्तकः, सामाजिकन्यायस्य पुरोधा च भारतरत्नः डॉ. भीमराव अम्बेडकरः, तस्य जयन्त्याः अवसरॆ तस्मै सादरं नमः।

डॉ. अम्बेडकरः भारतीयसंविधानस्य माध्यमेन सामाजिकन्यायं, समानतां तथा लोकतान्त्रिकमूल्यानि दृढतया प्रतिष्ठापितवान्। तस्य आदर्शाः विचाराश्च अस्मान् समावेशिनः सशक्तस्य राष्ट्रस्य निर्माणाय निरन्तरं प्रेरयन्ति।

तस्य सम्पूर्णं जीवनं समस्तानां भारतवासिनां कृते प्रेरणास्रोतः अस्ति।

---------------

हिन्दुस्थान समाचार