डा.अम्बेडकरस्य चिन्तनं विश्वस्य कृते मार्गदर्शकं जातम् — इति राजशेखरः उक्तवान्
चण्डीगढनगरम्, १५ अप्रैलमासः (हि.स.)। संयुक्त-राष्ट्र-मुख्यालये भारतस्य संविधान-निर्मातुः डा.अम्बेडकरस्य १३५तम-जयन्ती-अवसरे आयोजिते विशेष-कार्यक्रमे मुख्य-वक्तृरूपेण हरियाणा-राज्यस्य परिवहन-विभागस्य अतिरिक्त-प्रधान-सचिवः आईएएस अधिकारी राजशेखरः भागं
हरियाणा के अतिरिक्त मुख्य सचिव यूएन में आयाेजित कार्यक्रम में भाग लेते हुए


चण्डीगढनगरम्, १५ अप्रैलमासः (हि.स.)। संयुक्त-राष्ट्र-मुख्यालये भारतस्य संविधान-निर्मातुः डा.अम्बेडकरस्य १३५तम-जयन्ती-अवसरे आयोजिते विशेष-कार्यक्रमे मुख्य-वक्तृरूपेण हरियाणा-राज्यस्य परिवहन-विभागस्य अतिरिक्त-प्रधान-सचिवः आईएएस अधिकारी राजशेखरः भागं गृहीतवान्।

राजशेखरः उक्तवान् यत् डा.अम्बेडकरस्य विचाराः अद्यतन-वैश्विक-व्यवस्थायै अत्यन्तं महत्त्वपूर्णाः सन्ति। सः अवदत् यत् अंबेडकरः केवलं भारतस्य संविधान-निर्माता न, अपितु वैश्विक-चिन्तकः अपि आसीत्, यस्य चिन्तनं अद्यतन-गूढे अन्तर्राष्ट्रीय-परिदृश्ये अपि मार्गदर्शनं करोति।

सः इदमपि अवदत् यत् अंबेडकर-प्रणीतं “संवैधानिक-नैतिकतत्वम्” केवलं सैद्धान्तिकं नास्ति, अपितु व्यवहारिक-जीवनस्य तथा शासन-व्यवस्थायाः आधारः अस्ति। एषा नागरिकानां संस्थानां च मध्ये संतुलनं, समानता, न्यायश्च सुनिश्चितुं दृढं ढाँचा प्रदाति, यत् अद्यापि लोकतान्त्रिक-व्यवस्थासु प्रेरणास्रोतः अस्ति।

कार्यक्रमे संयुक्त-राष्ट्र-चार्टर-इत्यस्य तथा भारतीय-संविधानस्य मध्ये समानतायाः अपि प्रकाशः कृतः। राजशेखरः उक्तवान् यत् अंबेडकरः सामाजिक-आर्थिक-समानतां लोकतन्त्रस्य सफलतायै अनिवार्या मन्यते स्म। सः सञ्चेतनां दत्तवान् यत् यदि समाजे असमानता स्थास्यति, तर्हि लोकतन्त्रं केवलं औपचारिक-व्यवस्था एव भविष्यति। एषः एव विचारः अद्यापि वैश्विक-नीति-निर्मातॄणां कृते महत्त्वपूर्णं संदेशं ददाति।

हिन्दुस्थान समाचार / अंशु गुप्ता