मार्शल ऑफ द एयर फोर्स अर्जन सिंहस्य जयंतीसमाचरणस्य ’वॉकाथॉन’ इत्यस्य आयोजनम्
प्रयागराजः, 15 अप्रैलमासः (हि.स.)। मार्शल ऑफ द एयर फोर्स इत्यस्य जन्मदिवसस्य उत्सवमनुष्ठातुं बुधवासरे प्रातःकाले मुख्यालये मध्य वायु कमान इकाई भारतीय वायु सेना बमरौली प्रयागराजे च ‘वॉकाथॉन’ नामकः कार्यक्रमः आयोजितः। एतां सूचनां रक्षामन्त्रालयस्य
मार्शल ऑफ द एयर फोर्स अर्जन सिंह


प्रयागराजः, 15 अप्रैलमासः (हि.स.)। मार्शल ऑफ द एयर फोर्स इत्यस्य जन्मदिवसस्य उत्सवमनुष्ठातुं बुधवासरे प्रातःकाले मुख्यालये मध्य वायु कमान इकाई भारतीय वायु सेना बमरौली प्रयागराजे च ‘वॉकाथॉन’ नामकः कार्यक्रमः आयोजितः।

एतां सूचनां रक्षामन्त्रालयस्य प्रयागराजस्य जनसम्पर्काधिकारी उक्तवान् यत् अस्य कार्यक्रमस्य आरम्भः मध्य वायुनेतृत्वस्य एयर ऑफिसर कमाण्डिङ् इन चीफ द्वारा प्रातः 06ः30 वादने हरितध्वजप्रदर्शनपूर्वकः कृतः। अस्मिन् वॉकाथॉन कार्यक्रमे वायुयोधाः अधिकारीणः तथा तेषां परिवारजनाः महानुत्साहेन सहभागीभूताः। अयं कार्यक्रमः भारतस्य विशिष्टतमेषु सैन्यनेतृषु एकस्य विरासत्प्रति एकता स्वास्थ्यचेतना तथा सम्मानभावं दर्शयति।

तेन उक्तं यत् प्रतिभागिनः 29 विंग अन्तर्गत निर्दिष्टस्थाने समागताः सन्तः प्रायः पञ्च किलोमीटर दीर्घे सुचिह्निते मार्गे विचरितवन्तः। अस्मिन् मार्गे एल लिंक स्थितः डीएससी हट तथा एसआरई गेट इत्यादयः प्रमुखबिन्दवः समाविष्टाः आसन्। अस्मिन् समये सम्पूर्णमार्गे पर्याप्ता जलव्यवस्था तथा सुरक्षा उपायाः सुनिश्चिताः आसन्।तथा च उक्तं यत् अस्मिन् कार्यक्रमे बहुसंख्यकजनाः सहभागीभूताः यत्र जीवनसाथिनः तथा दशवर्षाधिकवयस्काः बालकाः अपि समाविष्टाः। कार्यक्रमस्य सुचारुरूपेण सञ्चालनार्थं चिकित्सासहायता एम्बुलेंस सेवा तथा सार्वजनिक उद्घोषणा प्रणाल्या सहित व्यापकाः प्रशासनिक व्यवस्थाः कृताः।

जनसम्पर्काधिकारी अवदत् यत् अयं वॉकाथॉन केवलं अर्जन सिंहस्य अद्वितीययोगदानस्य श्रद्धाञ्जलिः एव न आसीत् अपितु अस्य माध्यमेन कर्मिणां मध्ये शारीरिकस्वास्थ्य अनुशासन तथा ‘एस्प्रिट डी कॉर्प्स’ अर्थात् पारस्परिकभ्रातृत्वभावस्य महत्त्वं अपि सुदृढीकृतम्। भारतीय वायु सेना एतादृशैः प्रयासैः स्वस्य समृद्धविरासत् सम्मानयितुं तथा आगामिसंततिं प्रेरयितुं निरन्तरं प्रयतते।

---------------

हिन्दुस्थान समाचार