जागरूकतया समानेन अवसरेण भविष्यति नारीसशक्तिकरणम् : डॉ. ममता तिवारी
कानपुरम्, 15 अप्रैलमासः (हि.स.)।महिलानां समाजे वर्धमानां भूमिकां, आत्मनिर्भरता च सुरक्षा विषये जागरूकता अत्यन्त आवश्यकाऽस्ति। नारीसशक्तिकरणं केवलं अधिकारपर्यन्तं न सीमितं, अपितु सम्मानस्य समानावकाशस्य च विषयः अस्ति। छात्रिणां सक्रियभागीदारी समाजे स
कार्यक्रम के दौरान लिया गया छायाचित्र


कानपुरम्, 15 अप्रैलमासः (हि.स.)।महिलानां समाजे वर्धमानां भूमिकां, आत्मनिर्भरता च सुरक्षा विषये जागरूकता अत्यन्त आवश्यकाऽस्ति। नारीसशक्तिकरणं केवलं अधिकारपर्यन्तं न सीमितं, अपितु सम्मानस्य समानावकाशस्य च विषयः अस्ति। छात्रिणां सक्रियभागीदारी समाजे सकारात्मकपरिवर्तनस्य संकेतः अस्ति। एते कार्यक्रमाः जागरूकतां वर्धयितुं महत्त्वपूर्णां भूमिकां निर्वहन्ति। एतानि वचनानि बुधवासरे कार्यक्रमस्य आयोजिका डॉ ममता तिवारी उक्तवती।

छत्रपति शाहू जी महाराज विश्वविद्यालयस्य परिसरमध्ये आयोजिते नारीशक्ति वंदन अभियानस्य अन्तर्गतं कार्यक्रमे डीन स्टूडेंट वेलफेयर अंशु यादव मुख्यातिथिरूपेण उपस्थितासीत्। आयोजनं एसोसिएट डीएसडब्ल्यू तथा एनएसएस अटल यूनिटस्य प्रोग्राम ऑफिसर डॉ ममता तिवारी इत्यस्याः नेतृत्वे सम्पन्नम्।

विद्यार्थिनः नारीसशक्तिकरणविषये आकर्षकाणि पोस्टराणि निर्माय प्रस्तुतवन्तः, येषां परिसरमध्ये प्रदर्शनं कृतम्। तथैव छात्राः प्रेरणादायकैः उद्धरणैः माध्यमेन जागरूकतायाḥ संदेशं दत्तवन्तः।

कार्यक्रमे महिलानां समाजे वर्धमाना भूमिका, आत्मनिर्भरता, सुरक्षा च एतेषां महत्त्वं विषये चर्चा अभवत्।

अस्य कार्यक्रमस्य अन्तर्गतं प्रवर्तमाने सेल्फ डिफेन्स कार्यक्रमः “अस्त्र” अपि तस्मिन्नेव दिने समापितः। अस्मिन् अवसरे जूडो कराटे दलस्य सिहान विजय तथा तस्य दलस्य सदस्याः उपस्थिताः आसन्। विद्यार्थिनः जूडो कराटे विधीनां प्रदर्शनं कृतवन्तः।

अन्ते छात्र छात्र्यः नारीशक्ति वंदन विषयम् आधृत्य मानवश्रृंखलां निर्माय विश्वविद्यालयस्य मुख्यद्वारपर्यन्तं यात्रां निष्पादितवन्तः। अस्मिन् काले समग्रे परिसरमध्ये जागरूकतानारे घोषिताḥ, महिला सशक्तिकरणस्य संदेशः प्रसारितः।

एषः कार्यक्रमः विद्यार्थिनां मध्ये जागरूकतां वर्धयन् समाजे महिलासु प्रति सकारात्मकदृष्टिकोणं विकसितुं प्रभावी अभवत्।

हिन्दुस्थान समाचार