बंगाले अमित शाहस्य चतस्रो जनसभाः, स्मृति ईरानी, निर्मला अथ च अनुरागश्च अकुर्वन् निर्वाचनप्रचारम्
कोलकाता, 15 अप्रैलमासः (हि. स.)।पश्चिमबंगालविधानसभानिर्वाचनम् २०२६ इत्यस्य सन्दर्भे भारतीयजनतापार्टी प्रचारअभियानं तीव्रं कृतवती। अस्यां श्रृंखलायां केन्द्रीयगृहमन्त्री अमितशाहः बुधवासरे उत्तरबंगालप्रदेशस्य दौरे चत्वारि महत्वपूर्णानि जनसभाः संबोधयि
अमित शाह


कोलकाता, 15 अप्रैलमासः (हि. स.)।पश्चिमबंगालविधानसभानिर्वाचनम् २०२६ इत्यस्य सन्दर्भे भारतीयजनतापार्टी प्रचारअभियानं तीव्रं कृतवती। अस्यां श्रृंखलायां केन्द्रीयगृहमन्त्री अमितशाहः बुधवासरे उत्तरबंगालप्रदेशस्य दौरे चत्वारि महत्वपूर्णानि जनसभाः संबोधयिष्यति।

निर्धारितकार्यक्रमानुसारम् अमितशाहः प्रातः ११:३० वादने दार्जिलिंगस्थिते लेबोंग् ग्राउण्डे प्रथमां सभां करिष्यति। ततः अपराह्णे १ वादने जलपाईगुड़ीजनपदस्य राजगञ्जे, २:३० वादने फालाकाटायां तथा सायं ४ वादने तूफानगञ्जे जनसभाः संबोधयिष्यति। पार्टी एतानि सभाः निर्वाचनदृष्ट्या अत्यन्तं महत्वपूर्णानि मन्यते।

तस्मिन्नेव काले पूर्वकेन्द्रीय मन्त्री स्मृति ईरानी बुधवासरे कोलकातानगरे हुगलीजनपदे च रोड् शो आयोजयिष्यति, सह पत्रकार- सम्मेलनम् अपि करिष्यति। सा अपराह्णे १२:१५ वादने राजारहाटस्थिते नोवोटेल् स्थले माध्यमैः सह संवादं करिष्यति।

केन्द्रीयवित्तमन्त्री निर्मला सीतारमण अपि अद्य राज्यस्य दौरे भविष्यति। सा कालना तथा श्रीरामपुरस्थानेषु तन्तुवायकैः सह मिलित्वा तैः सह संवादं करिष्यति तथा लाभार्थिभ्यः वीवरकार्ड् वितरिष्यति।

अतिरिक्ततया सांसदः अनुरागसिंहठाकुरः कोलकातायां मार्गयात्रां करिष्यति तथा सायंकाले क्रीडांगणस्थिते कस्टम् क्लब् इत्यत्र क्रीडाजगत्सम्बद्धैः जनैः सह उपवेशनंकरिष्यति।

हिन्दुस्थान समाचार