मुख्यमंत्री डॉ. सरमा असमिया नव वर्षे सर्वेभ्यो दत्तवान् शुभकामनाः
गुवाहाटी, 15 अप्रैलमासः(हि.स.)। मुख्यमन्त्री डॉ. हिमन्तबिस्वशर्मा असमीयनववर्षस्य अवसरं प्रति सर्वेभ्यः स्वीयाः शुभकामनाः प्रेषितवान्। उल्लेखनीयं यत् रंगालीबिहोः निमित्तेन समग्रे राज्ये महान् उत्साहः दृश्यते। सर्वत्र ढोलपेपा गगना इत्येषां निनादेन जन
असम के मुख्यमंत्री द्वारा असमिया नव वर्ष पर शेयर किया गया पोस्ट


गुवाहाटी, 15 अप्रैलमासः(हि.स.)। मुख्यमन्त्री डॉ. हिमन्तबिस्वशर्मा असमीयनववर्षस्य अवसरं प्रति सर्वेभ्यः स्वीयाः शुभकामनाः प्रेषितवान्। उल्लेखनीयं यत् रंगालीबिहोः निमित्तेन समग्रे राज्ये महान् उत्साहः दृश्यते। सर्वत्र ढोलपेपा गगना इत्येषां निनादेन जनानां मध्ये नूतनतायाः संचारः भवति।

मुख्यमन्त्री डॉ. शर्मा अद्य सामाजिकमाध्यमे एकं सन्देशं साझीकृतवान्, यस्मिन् सः उक्तवान्— सर्वेभ्यः नववर्षस्य हार्दिकाः शुभाशयाः स्नेहः प्रेम च। नूतनवर्षं सर्वेषां जीवनेषु सुखं शान्तिं समृद्धिं च आनयतु इति मम कामना। नववर्षे नूतनोत्साहेन सह असमस्य सर्वाङ्गीणविकासस्य उद्देशेन निरन्तरं परिश्रमं कर्तुं वयं समर्थाः स्याम इति प्रार्थयन् वैशाखमासस्य प्रथमप्रभाते सः सर्वेषां आशीर्वादं याचते।

हिन्दुस्थान समाचार