केन्द्रीय मंत्री चिराग पासवानः प्राप्नोत् सम्राट चाैधरिणसर्वकारी आवासं,दत्तवांश्च शुभकामनाः
पटना, 15 अप्रैलमासः (हि.स.)। सम्राट चौधरी नूतनमुख्यमन्त्रिरूपेण शपथं ग्रहीष्यति। सः बिहारस्य चतुर्विंशतितमः मुख्यमन्त्री भविष्यति। बुधवासरे पटना-नगरस्य लोकभवनस्थिते जर्मन-हैङ्गर-नाम्नि स्थले प्रातः ११ वादने शपथग्रहणसमारोहः आयोज्यते। अस्य पूर्वं क
पाेसट में शेयर फाेटाे


पटना, 15 अप्रैलमासः (हि.स.)।

सम्राट चौधरी नूतनमुख्यमन्त्रिरूपेण शपथं ग्रहीष्यति। सः बिहारस्य चतुर्विंशतितमः मुख्यमन्त्री भविष्यति। बुधवासरे पटना-नगरस्य लोकभवनस्थिते जर्मन-हैङ्गर-नाम्नि स्थले प्रातः ११ वादने शपथग्रहणसमारोहः आयोज्यते। अस्य पूर्वं केन्द्रीयमन्त्री चिराग पासवान तस्मै अभिनन्दनं शुभाशंसाश्च दत्तवान्।

केन्द्रीयमन्त्री चिराग पासवान प्रातःकाले एव सम्राटचौधरीस्य सरकारीनिवासं गतवान्। सम्राटचौधरी ‘एक्स’ इति सामाजिकमाध्यमे चित्रसहितं प्रकाशनं कृत्वा एतस्य सूचना दत्तवान्। प्रकाशने सः लिखितवान् यत्—माननीयः केन्द्रीयमन्त्री तथा लोजपा (आर) इत्यस्य सम्मानितः राष्ट्रीयाध्यक्षः चिराग पासवान अद्य सरकारीनिवासे आगत्य शुभाशंसाः दत्तवान्।

प्रकाशनद्वारा सः तस्मै कृतज्ञतां प्रकटितवान्। सम्राटचौधरी लिखितवान्—“तस्य समर्थनाय सहयोगाय स्नेहाय च धन्यवादाः, आभारश्च।”

चिराग पासवानोऽपि अस्यां भेटायां उक्तवान् यत्—“अहं पटना-नगरे बिहारस्य मुख्यमन्त्रीपदस्य शपथग्रहणात् पूर्वं भ्रातरं सम्राटचौधरीं मिलित्वा एनडीए विधायकदलस्य नेता रूपेण चयनस्य निमित्तं तस्मै अभिनन्दनं शुभाशंसाश्च अदाम्। मम पूर्णविश्वासः अस्ति यत् भवतः नेतृत्वे बिहारः विकासस्य सुशासनस्य समृद्धेः च नूतनाः शिखराः प्राप्स्यति।

---------------

हिन्दुस्थान समाचार