बिहार-राज्यस्य दायित्वम् अद्यतः सम्राट-चौधरी-इत्यस्य हस्तयोः भविष्यति
पटनानगरम्, १५ अप्रैलमासः (हि.स.)। भारतीय-जनता-पक्ष-नीत-राष्ट्रीय-जनतान्त्रिक-गठबन्धनस्य (राजग) विधायक-दलस्य नूतनः नेता सम्राट-चौधरी अद्य बिहार-राज्यस्य शासन-भारं ग्रहीतुं गच्छति। बिहारस्य पूर्व-उपमुख्यमन्त्री चौधरी भारतीय-जनता-पक्षस्य प्रथमः तथा रा
सम्राट चौधरी (बाएं) और दाएं नीतीश कुमार। फोटो - फाइल


पटनानगरम्, १५ अप्रैलमासः (हि.स.)। भारतीय-जनता-पक्ष-नीत-राष्ट्रीय-जनतान्त्रिक-गठबन्धनस्य (राजग) विधायक-दलस्य नूतनः नेता सम्राट-चौधरी अद्य बिहार-राज्यस्य शासन-भारं ग्रहीतुं गच्छति। बिहारस्य पूर्व-उपमुख्यमन्त्री चौधरी भारतीय-जनता-पक्षस्य प्रथमः तथा राज्यस्य चतुर्विंशतितमः मुख्यमन्त्रीरूपेण अद्य प्रातः १०:५० वादने लोकभवने मुख्यमन्त्री-पदस्य शपथं ग्रहीष्यति। बिहारस्य पूर्व-मुख्यमन्त्री नीतीश-कुमारस्य उत्तराधिकारी सम्राट-चौधरी, पूर्वं भाजपा-दलस्य अनन्तरं च राजग-विधायक-दलस्य नेता निर्वाचितः सन्, ह्यः सायं राज्यपालं निवृत्त-लेफ्टिनेंट-जनरल सैयद-अता-हसनैनं प्रति शासन-निर्माणस्य लिखितं प्रस्तुतवान्।

तेन सह केन्द्रीयमन्त्री शिवराज-सिंह-चौहान, जनता-दलस्य (संयुक्त) कार्यकारी-अध्यक्षः संजय-कुमार-झा, केन्द्रीयमन्त्री राजीव-रंजन-सिंहः उर्फ ललन-सिंहः, जीतनराम-मांझी, पूर्वमन्त्री विजय-कुमार-चौधरी, भाजपा-प्रदेशाध्यक्षः संजय-सरावगी, रालोमो-अध्यक्षः उपेन्द्र-कुशवाहा तथा लोजपा (रा) सांसदः अरुण-भारती अपि उपस्थिताः आसन्। शपथ-ग्रहण-समारोहे भाजपा-राष्ट्रीय-अध्यक्षः नितिन-नवीनः अपि सहभागी भविष्यति।राज्ये सत्ता-हस्तान्तरण-प्रक्रिया ह्यः प्रातः ११ वादने आरब्धा। मुख्यमन्त्री नीतीश-कुमारः स्वस्य मन्त्रीमण्डलस्य अन्तिम-सभायां सहभागी अभवत्। ततः सः स्वकीय-सर्वकारी-निवासं गतवान्। ततः सः ३:१५ वादने लोकभवनं गत्वा राज्यपालाय स्वस्य त्यागपत्रं समर्प्य पुनः निवासं प्रत्यागतवान्। तेन सह सम्राट-चौधरी, पूर्व-संसदीय-कार्यमन्त्री विजय-कुमार-चौधरी, जदयू-राष्ट्रीय-कार्यकारी-अध्यक्षः संजय-कुमार-झा तथा राजीव-रंजन-सिंहः उर्फ ललन-सिंहः अपि लोकभवनं गतवन्तः।

भाजपा-अध्यक्षः नितिन-नवीनः, शिवराज-सिंह-चौहानः तथा बिहार-भाजपा-प्रभारी विनोद-तावड़े विशेष-विमानेन नवदिल्लीतः पटना-नगरं प्राप्तवन्तः। भाजपा-राष्ट्रीय-संगठन-महामन्त्री बी.एल.-सन्तोषः प्रातः ९:३० वादने एव आगतः आसीत्। शिवराज-सिंह-चौहानः किञ्चित्कालं राजकीय-अतिथिशालायां स्थितवान्, ततः भाजपा-कार्यालयं गतवान्।

भाजपा-कार्यालये अपराह्णे २:३० वादने विधायक-दलस्य सभा अभवत्। पर्यवेक्षकः शिवराज-सिंह-चौहानस्य निर्देशेन पूर्व-उपमुख्यमन्त्री विजय-कुमार-सिन्हा नेता-पदाय सम्राट-चौधरी-इत्यस्य नाम प्रस्तावितवान्। पूर्वमन्त्री मंगल-पाण्डेयः, डॉ.दिलीप-कुमार-जायसवालः, पूर्व-उपमुख्यमन्त्री रेणु-देवी तथा विधायकः राघवेन्द्र-प्रताप-सिंहः प्रस्तावस्य समर्थनं कृतवन्तः। ततः शिवराज-सिंह-चौहानः सम्राट-चौधरी-इत्यस्य भाजपा-विधायक-दलस्य नेतृत्त्वे चयनस्य घोषणां कृतवान्।अनन्तरं राजग-विधानमण्डल-दलस्य संयुक्त-सभा विधानसभायाः केन्द्रीय-कक्षे अभवत्, यत्र नीतीश-कुमारः सम्राट-चौधरीं राजग-विधायक-दलस्य नेता इति घोषितवान्।

हिन्दुस्थान समाचार / अंशु गुप्ता