सम्राट चौधरी बिहारस्य 24 तमस्य मुख्यमंत्रिरुपे अगृह्णात् शपथवचनम्
-जदयू कोटेतो विजय चौधरी अथ च विजेन्द्र प्रसाद यादवश्च गृहीवन्तौ उपमुख्यमंत्रिणः शपथवचनम् पटना, 15 अप्रैलमासः (हि.स.)। बिहारराज्यस्य नूतनमुख्यमन्त्रिणः रूपेण बुधवासरे भारतीयजनतापार्टी तथा राजगविधायकदलस्य नेता सम्राट् चौधरी पदस्य गोपनीयतायाश्च शप
बिहार के नये मुख्यमंत्री सम्राट चौधरी की फोटो


-जदयू कोटेतो विजय चौधरी अथ च विजेन्द्र प्रसाद यादवश्च गृहीवन्तौ उपमुख्यमंत्रिणः शपथवचनम्

पटना, 15 अप्रैलमासः (हि.स.)।

बिहारराज्यस्य नूतनमुख्यमन्त्रिणः रूपेण बुधवासरे भारतीयजनतापार्टी तथा राजगविधायकदलस्य नेता सम्राट् चौधरी पदस्य गोपनीयतायाश्च शपथं गृहीतवान्। पाटलिपुत्रस्य लोकभवने राज्यपालः लेफ्टिनेंट् जनरल् सय्यद् अता हसनैन (सेवानिवृत्तः) तस्मै शपथं दत्तवान्। सम्राट् चौधरीस्य मुख्यमन्त्रित्वग्रहणेन बिहारराज्ये नूतनः राजनैतिकपर्यायः आरब्धः। सः राज्ये भारतीयजनतापार्टीस्य प्रथमः मुख्यमंत्री अभवत्। तेन सह जनता दल युनाइटेड् पक्षतः द्वौ उपमुख्यमन्त्रिणौ विजय चौधरी विजेन्द्रप्रसाद यादव च अपि पदगोपनीयतयोः शपथं गृहीतवन्तौ।

जीवनं शिक्षाश्च

सम्राट् चौधरी १६ नवम्बर् १९६८ तमे दिने मुंगेरजनपदस्य लखनपुरग्रामे जातः। तस्य माता पार्वतीदेवी पिता शकुनिचौधरी च उभौ अपि बिहारस्य राजनेतारौ आस्ताम्। स्वीयां मूलशिक्षां समाप्त्य सः मदुरै कामराज विश्वविद्यालयात् उच्चशिक्षां प्राप्तवान्। सः कोयरी कुशवाहा जातिसम्बद्धः अस्ति तथा भारतीयजनतापार्टीस्य ओबीसी वर्गस्य प्रमुखः मुखः आसीत्। तस्य विवाहः ममता कुमारी नाम्न्या सह अभवत्। ताभ्यां एकः पुत्रः एका पुत्री च स्तः। सः राकेशकुमार इति नाम्ना अपि प्रसिद्धः अस्ति।

प्रारम्भिकं राजनैतिकजीवनम्

सम्राट् चौधरी १९९० तमे वर्षे सक्रियराजनीतौ प्रविष्टः। १९ मे १९९९ तमे दिने सः राबड़ीदेव्याः मन्त्रिमण्डले कृषिमन्त्रिरूपेण शपथं गृहीतवान्। सः २००० तथा २०१० तमे वर्षयोः परबत्ता विधानसभाक्षेत्रात् निर्वाचनं जित्वा विधायकः अभवत्। सः बिहारविधानसभायां विपक्षदलस्य मुख्यसचेतकः नियुक्तः। २ जून् २०१४ तमे दिने सः जीतनराममांझेः मन्त्रिमण्डले नगरविकास आवासविभागस्य मन्त्री अभवत्। तेन नगरविकास आवास स्वास्थ्यविभागेषु अपि कार्यं कृतम्। १९९९ तमे वर्षे सः मापनविज्ञान उद्यानिकीविभागयोः मन्त्री अपि आसीत्। २०१८ तमे वर्षे सः भारतीयजनतापार्टीस्य बिहारराज्यएककस्य उपाध्यक्षः नियुक्तः। २०२० तमे वर्षे विधानसभानिर्वाचनकाले सः एनडीए पक्षस्य प्रमुखप्रचारकः अभवत्। किन्तु लालूप्रसादयादवस्य जातिसमीकरणविषये विवादास्पदवक्तव्येन सः विवादे अपि पतितः।

नीतीशकुमारस्य शासनकाले

२०२१ तमे वर्षे सम्राट् चौधरी विस्तारितमन्त्रिमण्डले पंचायतिराजमन्त्री अभवत्। मार्च् २०२१ तमे मासि सः विधानसभाध्यक्षेन विजयकुमारसिन्हेन सह तीव्रविवादे संलग्नः अभवत्। पश्चात् सः सभामर्यादालङ्घनस्य कृते क्षमां याचितवान्। तस्य नेतृत्वे पंचायतिराजमन्त्रालयेन संगठनात्मकसंरचनायाः उन्नयनाय अनेकानि पदानि कृतानि। स्वच्छताविभागे अधिककर्मचारिणां नियुक्तिः कृता तथा परित्यक्तपशूनां मृतदेहानां सुरक्षितनिपटानस्य व्यवस्थाऽपि कृताऽभूत्। अन्यविभागानां सह समन्वयस्य योजनाः अपि तेन प्रवर्तिताः।

भारतीयजनतापार्टीप्रदेशाध्यक्षत्वम्

मार्च् २०२३ तमे वर्षे सम्राट् चौधरी संजयजयसवालस्य स्थाने बिहारराज्यस्य भारतीयजनतापार्टीप्रदेशाध्यक्षः नियुक्तः। विश्लेषकानुसारं एतत् निर्णयः कोयरी कुशवाहा जातेः मतदातृणां समर्थनं दृढीकर्तुं कृतः। तस्य नियुक्तेः अनन्तरं राबड़ीदेवी उक्तवती यत् “भाजपायाः बनियवर्गात् विमुखता दृश्यते।” प्रदेशाध्यक्षरूपेण सः नीतीशकुमारं प्रति अनेकवारं तीक्ष्णालोचनां कृतवान्। मई २०२३ तमे मासि सासारामनगरस्य रामनवमीहिंसाविषये कारागारे स्थितं जवाहरप्रसादं द्रष्टुं यदा सः अगच्छत् तदा अधिकारिभिः निवारितः। ३ मई २०२३ तमे दिने दत्ते वक्तव्ये सः नीतीशकुमारं अपराधिनां प्रोत्साहनं कर्तुम् आरोपितवान्।

बिहारस्य मुख्यमन्त्रिणां सूची

डॉ श्रीकृष्णसिंह

दीपनारायणसिंह

बिनोदानन्दझा

कृष्णवल्लभसहाय

महामायाप्रसादसिन्हा

सतीशप्रसादसिंह

बिन्देश्वरीप्रसादमण्डल

भोलापासवानशास्त्री

हरिहर सिंह

दरोगाप्रसादराय

कर्पूरीठाकुर

केदारपाण्डे

अब्दुलगफूर

जगन्नाथमिश्र

रामसुन्दरदास

चन्द्रशेखरसिंह

बिन्देश्वरीदुबे

भागवतझाआजाद

सत्येन्द्रनारायणसिन्हा

लालूप्रसादयादव

राबड़ीदेवी

नीतीशकुमार

जीतनराममांझी

सम्राट् चौधरी च

---------------

हिन्दुस्थान समाचार