Enter your Email Address to subscribe to our newsletters

रायपुरम् 15 अप्रैलमासः (हि.स.)।
छत्तीसगढ-राज्ये मुख्यमन्त्रिणः विष्णुदेव-सायस्य अध्यक्षतायां अद्य बुधवासरे मन्त्रिमण्डल-सभा भविष्यति। एषा सभा मन्त्रालये प्रातः ११-३० वादने आयोजिता भविष्यति। अद्य अस्यां सभायां बहुषु महत्वपूर्णेषु विषयेषु चर्चा भविष्यति।
तथैव सर्वकारः विभिन्न-विभाग-संबद्ध-प्रस्तावानां योजनानां च समीक्षां कृत्वा नूतन-निर्णयान् स्वीकर्तुं शक्नोति। अस्य अतिरिक्तं बस्तर-क्षेत्रस्य विकासाय किञ्चित् महत्त्वपूर्णं निर्णयं अपि स्वीकर्तुं शक्यते।
सूत्राणां अनुसारं अस्यां सभायां विकास-योजनानां प्रगतेः, आगामि-योजनानां रूपरेखायाः तथा प्रशासनिक-निर्णयानां विषये अपि विचारः कर्तुं शक्यते।
हिन्दुस्थान समाचार