बेसिक-विद्यालयानां शिक्षकाः निजी-विद्यालयेभ्यः बहु-उत्तमाः — महापौरः उक्तवान्
प्रयागराजनगरम्, १५ अप्रैलमासः (हि.स.)। प्रयागराज-कार्पोरेशन-इत्यस्य माध्यमेन नगरस्य प्राथमिक-विद्यालयानां व्यापकं कायाकल्पं क्रियते। स्मार्ट-सिटि-अभियानान्तर्गतं “ऑपरेशन कायाकल्प”-योजनया अभ्युदय-समग्र-आदर्श-विद्यालयाः निर्मीयन्ते, येन एते विद्यालया
लोकार्पण करते महापौर


प्रयागराजनगरम्, १५ अप्रैलमासः (हि.स.)। प्रयागराज-कार्पोरेशन-इत्यस्य माध्यमेन नगरस्य प्राथमिक-विद्यालयानां व्यापकं कायाकल्पं क्रियते। स्मार्ट-सिटि-अभियानान्तर्गतं “ऑपरेशन कायाकल्प”-योजनया अभ्युदय-समग्र-आदर्श-विद्यालयाः निर्मीयन्ते, येन एते विद्यालयाः निजी-विद्यालयेभ्यः स्पर्धां कुर्वन्ति।

एतेषु विद्यालयेषु छात्राणां कृते स्मार्ट-कक्षाः, विज्ञान-प्रयोगशालाः, सङ्गणक-प्रयोगशालाः तथा पुस्तकालयाः च निर्मिताः सन्ति। प्रथमकक्षात् अष्टमकक्षापर्यन्तं छात्राणां कृते आधुनिक-सुविधायुक्तः शिक्षण-व्यवस्था प्रवर्तते। नगरस्य एकः कम्पोजिट-विद्यालयः अपि ३ कोटि २९ लक्ष रूप्यक-व्ययेन व्यापक-स्तरेण उन्नतः कृतः अस्ति।

अस्य लोकार्पणं महापौरः गणेश-केसरवानी तथा जनपद-बेसिक-शिक्षा-अधिकारी अनिल-कुमारः कृतवन्तौ। अस्मिन् अवसरे महापौरः उक्तवान् यत् २०१७ तमे वर्षे राज्ये योगी-सर्वकारस्य आगमनानन्तरं बेसिक-विद्यालयानां स्थितिः बहु संशोधिता अस्ति, जर्जर-भवनानां पुनर्निर्माणं कृत्वा विद्यालयेषु आधुनिक-सुविधाः अपि वर्धिताः।

सः अवदत् यत् प्राथमिक-विद्यालयेषु नियुक्ताः शिक्षकाः आयोग-चयनिताः सन्ति तथा तेषां योग्यता अपि निजी-विद्यालय-शिक्षकेभ्यः श्रेष्ठा अस्ति। सः अभिभावकान् आह्वानं कृतवान् यत् ते स्वबालकान् सर्वकारी-विद्यालयेषु पठितुं प्रेरयन्तु।

गणेश-केसरवानी इदमपि उक्तवान् यत् यथा सर्वकारी-विद्यालयानां लोकप्रियता वर्धते, तथा अग्रिमेषु दिनेषु प्रवेश-परीक्षायाः आवश्यकता अपि भवितुं शक्नोति।

अनीलकामरः अवदत् यत् गुणवत्तापूर्ण-शिक्षायां विशेषं बलं दीयते, येन छात्राः उत्तमं भविष्यं प्राप्तुं शक्नुवन्ति। खण्ड-शिक्षा-अधिकारी प्रतिभा-सिंहः अपि अवदत् यत् अभ्युदय-योजनायाः अन्तर्गतं स्मार्टकक्षा, पुस्तकालयः, सङ्गणक-तथा-विज्ञान-प्रयोगशालाः स्थापिताः सन्ति।

नगर-क्षेत्रे स्थितेषु ६० प्राथमिक-विद्यालयेषु अद्यावधि ३६ विद्यालयाः स्मार्ट-सिटी-अभ्युदय-योजनया कायाकल्पिताः सन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता