Enter your Email Address to subscribe to our newsletters

- मुख्यमंत्री डॉ. यादवो जनजातीय कार्य विभागस्य समीक्षोपवेशने निर्देशः
भोपालम्, 15 अप्रैलमासः (हि.स.) ।मध्यप्रदेशस्य मुख्यमंत्री डॉ. मोहन यादव उक्तवान् यत् जनजातीयकार्यविभागेन संचालितेषु छात्रावासेषु आश्रमेषु च अध्ययनशीलताया देशभक्तेः च सकारात्मकः वातावरणः प्रोत्साहितव्यः। छात्रावासानां आश्रमाणां च व्यवस्थापने जनअभियानपरिषद् गायत्रीपरिवार इत्यादिभिः संस्थाभिः सह सहयोगः अपि ग्राह्यः।
मुख्यमंत्री डॉ. यादवो बुधवासरे मन्त्रालये सम्पन्नायां जनजातीयकार्यविभागस्य समीक्षासभायां एतानि निर्देशान् दत्तवान्। अस्मिन् सभायां जनजातीयकार्य मंत्री डॉ. कुंवर विजय शाह आभासी माध्यमेन सम्मिलितः अभवत्।
मुख्यमंत्री डॉ. यादव उक्तवान् यत् छात्रावासेषु आश्रमेषु च भोजनपाकः स्वच्छता सुरक्षा व्यवस्था च विशेषतया परीक्ष्यताम्। छात्रावासानां संवेदनशीलव्यवस्थापनार्थं आवश्यकं प्रशिक्षणं निरीक्षणव्यवस्था च अपि स्थापनीया।
उल्लेखनीयम् अस्ति यत् प्रदेशे जनजातीयकार्यविभागस्य प्रायः 3000 आश्रम छात्रावासाः अनुसूचितजातिविकासविभागस्य च प्रायः 2000 आश्रम छात्रावासाः संचालिताः सन्ति।
समीक्षासभायां मुख्यसचिवः अनुराग जैन मुख्यमंत्रीकार्यालयस्य अपरमुख्यसचिवः नीरज मंडलोई प्रमुखसचिवः जनजातीयकार्यविभागस्य गुलशन बामरा अन्ये च अधिकारिणः उपस्थिताः आसन्।
हिन्दुस्थान समाचार