एशियायाः सर्वातिविस्तृतः ऊर्ध्वस्थितः वन्यजीव-परिसरः दिल्ली–देहरादून-आर्थिक-मार्गः
सहारनपुरम्, १५ अप्रैलमासः (हि.स.)। मंगलवार-दिने बाबासाहेब-भीमराव-अम्बेडकरस्य जयन्त्यां प्रधानमन्त्रिणा नरेन्द्र-मोदिना यः दिल्ली–देहरादून-आर्थिक-परिसरः लोकार्पितः, तस्मिन् अनेकाः विशेषताः सन्ति। एषः दिल्ली–देहरादून-आर्थिक-परिसरः प्रायः २१३ किलोमीट
एलिवेटेड वाइल्डलाइफ कॉरिडोर


एलिवेटेड वाइल्डलाइफ कॉरिडोर


सहारनपुरम्, १५ अप्रैलमासः (हि.स.)। मंगलवार-दिने बाबासाहेब-भीमराव-अम्बेडकरस्य जयन्त्यां प्रधानमन्त्रिणा नरेन्द्र-मोदिना यः दिल्ली–देहरादून-आर्थिक-परिसरः लोकार्पितः, तस्मिन् अनेकाः विशेषताः सन्ति।

एषः दिल्ली–देहरादून-आर्थिक-परिसरः प्रायः २१३ किलोमीटर-दीर्घः अस्ति। षड्-पंक्तियुक्तः अयं मार्गः प्रायः १२ सहस्र-कोटि-रूप्यक-व्ययेन निर्मितः। अस्य आरम्भे सति दिल्लीतः देहरादूनं यावत् यात्रा-समयः षड्-होराभ्यः न्यूनीभूय केवलं सार्ध-द्वि-होरायां भविष्यति, येन यात्रिभ्यः महती सुविधा लप्स्यते।

अस्मिन् मार्गे दश-इण्टरचेञ्ज-व्यवस्थाः, त्रयः रेल-उपरि-सेतवः, चत्वारः महान्-सेतवः तथा द्वादश “वे-साइड” सुविधाः सन्ति। अपि च अस्मिन् उन्नत-यातायात-प्रबन्धन-प्रणाली अपि स्थापितम् अस्ति।वन्यजीवानां सुरक्षित-गमनाय अस्मिन् १२ किलोमीटर-दीर्घः ऊर्ध्वस्थित-वन्यजीव-मार्गः निर्मितः अस्ति, यः एशियायाः दीर्घतमेषु ऊर्ध्वस्थित-वन्यजीव-मार्गेषु अन्यतमः इति कथ्यते। अस्मादतिरिक्तं अष्ट “एनिमल-पास”, द्वौ २००-२०० मीटर-दीर्घौ हस्ति-अण्डरपास, तथा सहारनपुर-सीमायां माँ-डाट-काली-मन्दिर-समीपे ३७० मीटर-दीर्घः सुरङ्गः अपि निर्मितः अस्ति।

अयं परिसरो विशेषरूपेण रमणीयः अस्ति, यतः सः वनैः पर्वतैः च परिवेष्टितः अस्ति। अस्मिन् भागे पर्वतानां मध्ये प्रवहन्त्याः वर्षा-नद्याः उपरि पिलर-निर्माणेन मार्गः निर्मितः, येन वृक्षच्छेदनं न कृतम्, पर्यावरण-संरक्षणं च विशेषतः रक्षितम्।अयम् आर्थिक-परिसरः चतुर्षु खण्डेषु विभक्तः अस्ति—

प्रथम-खण्डः (सेक्शन 1)अक्षरधामतः उत्तर-प्रदेश-सीमापर्यन्तम् (प्रायः ३१ किमी)षड्-लेन-सर्विस-मार्गयुक्तः, उत्तर-पूर्व-दिल्ली-नगरस्य सम्मर्द-नियन्त्रणाय उपयोगी, अधिकांशः भागः ऊर्ध्वस्थितः अस्ति।

द्वितीय-खण्डः (सेक्शन 2)उत्तर-प्रदेशस्य ग्रीनफील्ड-मार्गः (प्रायः १२० किमी)बागपत-शामली-मुजफ्फरनगर-मार्गेण सहारनपुरस्य लाखनौरपर्यन्तं षड्-लेन-एक्सेस-कंट्रोल्ड-मार्गः।

तृतीय-खण्डः (सेक्शन 3)लाखनौरतः गणेशपुरपर्यन्तम् (प्रायः ४२ किमी)पूर्वनिर्मितः चतुर्लेन-मार्गः अधुना एक्सेस-कंट्रोल्ड-हाईवे-रूपेण परिवर्तितः।

चतुर्थ-खण्डः (सेक्शन 4)गणेशपुरतः देहरादूनपर्यन्तम् (वन-क्षेत्रम्, प्रायः २० किमी)

अस्मिन् भागे १२ किलोमीटर-दीर्घः एशियायाः बृहत्तमः ऊर्ध्वस्थित-वन्यजीव-मार्गः अस्ति। डाट-काली-मन्दिर-समीपे ३४० मीटर-दीर्घः सुरङ्गः अपि निर्मितः, पर्यावरण-वन्यजीव-संरक्षणं च केन्द्रे कृतम् अस्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता