महिला-आरक्षण-विधेयकः देशस्य महिलानां सशक्तीकरणस्य ऐतिहासिक: प्रयास: : रेखा-गुप्ता
नवदिल्ली-नगरम्, १५ अप्रैलमासः (हि.स.)। दिल्ली-राज्यस्य मुख्यमन्त्री रेखा-गुप्ता महिला-आरक्षण-विधेयकं देशस्य महिलानां सशक्तीकरणस्य दिशि ऐतिहासिकं दूरदर्शीतां च पादक्षेपम् इति अवदत्। सा उक्तवती यत् एषः विधेयकः भविष्ये महिलाः नूतन-उन्नतिं प्रति नयिष्य
आंध्र प्रदेश में तिरुपति दौरे के दौरान बुधवार को  दिल्ली की मुख्यमंत्री रेखा गुप्ता


नवदिल्ली-नगरम्, १५ अप्रैलमासः (हि.स.)। दिल्ली-राज्यस्य मुख्यमन्त्री रेखा-गुप्ता महिला-आरक्षण-विधेयकं देशस्य महिलानां सशक्तीकरणस्य दिशि ऐतिहासिकं दूरदर्शीतां च पादक्षेपम् इति अवदत्। सा उक्तवती यत् एषः विधेयकः भविष्ये महिलाः नूतन-उन्नतिं प्रति नयिष्यति तथा निर्णय-निर्माणस्य मुख्यधारायां तासां सहभागितां सुदृढां करिष्यति।

सा एतानि विचाराणि आन्ध्र-प्रदेशस्य तिरुपति-यात्रायां बुधवासरे व्यक्तवती। अस्मिन् अवसरे सा श्री-पद्मावती-अम्मावारी-मन्दिरे दर्शनं कृत्वा देशवासिनां सुख-समृद्धि-स्वास्थ्यस्य कामनां कृतवती। अनन्तरं सा तिरुमल-तिरुपति-देवस्थानस्य एकीकृत-नियन्त्रण-केन्द्रस्य अपि अवलोकनं कृतवती तथा तत्र प्रयुज्यमानानां आधुनिक-प्रौद्योगिकीनां व्यवस्थापनस्य च प्रशंसां कृतवती।

मुख्यमन्त्री उक्तवती यत् अत्र परम्परा-प्रौद्योगिक्योः समन्वयः अन्येषां धार्मिक-स्थलानां कृते प्रेरणास्रोतः अस्ति। सा अवदत् यत् तिरुपति-बलाजी-दर्शनात् आध्यात्मिक-सन्तोषः अनुभूतः तथा अत्र स्वच्छता-सुरक्षा-दर्शन-व्यवस्था च उत्कृष्टा अस्ति।

सा अपि अवदत् यत् प्रधानमन्त्रिण: नरेन्द्र-मोदिन: नेतृत्वे भारते नारी-सशक्तीकरणं नूतनां दिशां प्राप्तम्। “नारी-शक्ति” इति केन्द्रे स्थाप्य बहवः कार्यक्रमाः नीतयः च प्रवर्तिताः सन्ति, ये महिलानां आत्मनिर्भरता-सशक्तीकरण-निर्णय-क्षमतां च वर्धयन्ति। महिला-आरक्षण-विधेयकः अपि अस्य दूरदर्शिनः चिन्तनस्य अंशः अस्ति, यः लोकतान्त्रिक-व्यवस्थायां महिलानां सहभागितां सुदृढां करिष्यति।

अन्ते सा उक्तवती यत् भारतीय-परम्परायां महिलाभ्यः उच्चतमं सम्मानं प्रदत्तम् अस्ति, अतः लोकतन्त्रे अपि तासां समुचितः आदरः सहभागिता च अपेक्षिता। सा देशस्य सर्वाभ्यः महिलाभ्यः शुभाशिषः दत्त्वा उक्तवती यत् अग्रिम-कालः महिलानां नेतृत्वस्य सशक्तीकरणस्य प्रगतिश्च भविष्यति। महिला-आरक्षण-विधेयकः अस्मिन् मार्गे मील-शिला इव सिद्ध्यति इति सा विश्वासं व्यक्तवती।

हिन्दुस्थान समाचार / अंशु गुप्ता