Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 15 अप्रैलमासः (हि.स.)।
रुद्रप्रयाग-जनपदे गुप्तकाशी-क्षेत्रे विश्वप्रसिद्धः ‘जाख-मेला’ अस्मिन् वर्षे अपि शताब्दीपरम्परया अनुवर्तितः। अत्र भगवान् जाखस्य पश्वा (नर-देवता) धग्धमान-अङ्गाराणां मध्ये नृत्यं कृत्वा उपस्थितान् सहस्रशः श्रद्धालून् विस्मयचकितान् अकरोत्। अनेन सह एषः मेला सम्यक् सम्पन्नः अभवत्।
मेले मुख्य-आकर्षणं तत् क्षणम् आसीत् यदा ढोल-दमाऊ-भोंपू-वाद्यानां निनादैः तथा “जय जाख देवता” इति गगनभेदी-घोषैः सह नर-देवता दह्यमान-अग्निकुण्डे प्रविष्टवान्। अस्मिन् वर्षे भगवान् जाखः न केवलं एकवारं, अपि तु त्रिवारं अग्निकुण्डस्य अन्तः प्रविश्य नृत्यं कृतवान् तथा भक्तेषु कृपां वर्षितवान्। एतादृशं रोमाञ्चजनकं दृश्यं दृष्ट्वा न केवलं श्रद्धालवः, अपि तु आधुनिक-विज्ञान-विशारदाः अपि विस्मिताः अभवन्।
नगर-भ्रमण-स्नान-परम्परानुसारं नर-देवता स्वस्य मूल-ग्रामात् देवशाल-स्थितं विंध्यवासिनी मंदिर प्रति नीयते। ततः जाखस्य कण्डी तथा प्रज्वलित-दीपेन सह मन्दिरं प्रति प्रस्थानं क्रियते। मन्दिर-परिसरे बांज-वृक्षस्य अधः ढोल-सागरस्य विशेष-तालैः देवता अवतरति, ततः तं ताम्र-गागरस्य पवित्र-जलैः स्नापयन्ति।
नारायणकोटी, देवशाल, कोठड़ा-ग्रामाणां ग्रामवासिनः मिलित्वा विशालम् अग्निकुण्डं निर्मिमन्ति। वैशाख-संक्रान्त्यां रात्रौ जागरणेन सह अग्निः प्रज्वाल्यते, अनन्तरं द्वितीया-दिने प्रातःकाले महतीः काष्ठखण्डाः अपनीय केवलं रक्त-अङ्गाराणां मध्ये एतत् दिव्य-नृत्यं सम्पद्यते।
एषः मेला उत्तराखंड-राज्यस्य समृद्ध-लोकसंस्कृतेः जीवन्मयं दर्पणम् अस्ति। गुप्तकाशी-नगरात् प्रायः षट्-किलोमीटर-दूरे स्थिते अस्मिन् मन्दिरे भगवान् जाखः यक्ष-रूपेण पूज्यते। मेले सहस्रशः श्रद्धालवः आगत्य न केवलं भगवानः दर्शनं कृत्वा पुण्यं प्राप्तवन्तः, अपि तु सांस्कृतिक-वातावरणस्य स्थानीय-बाजारस्य च आनन्दं अनुभूतवन्तः।
अयं मेला दर्शयति यत् अत्र अद्यापि श्रद्धा विश्वासश्च विज्ञानात् अपि श्रेष्ठौ इव दृश्येते। जाख-मेला केवलं धार्मिक-समारोहः न, अपि तु क्षेत्रस्य एकता जीवन्मयी-परम्पराणां च प्रतिबिम्बम् अस्ति।
हिन्दुस्थान समाचार