Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १५ अप्रैलमासः (हि.स.)। हिमाचल-दिवसस्य अवसरे प्रधानमन्त्रिणा नरेन्द्रमोदिना तथा केन्द्रीय-गृहमन्त्रिणा अमितशाहेन प्रदेशवासिभ्यः शुभाशंसाः प्रदत्ताः। एते नेतारः हिमाचल-प्रदेशं देवभूमिरिति निर्दिश्य तस्य सांस्कृतिक-वैभवं, परम्पराः तथा जनानां कर्मठतां प्रशंसितवन्तः, प्रदेशस्य उज्ज्वल-भविष्यस्य कामनां च कृतवन्तः।
प्रधानमन्त्रिणा सामाजिक-माध्यम-मञ्चे ‘एक्स’ इत्यत्र उक्तं यत् हिमाचल-प्रदेशः स्वस्य समृद्ध-परम्पराभिः, अनुपम-सांस्कृतिक-धरोहरया तथा अत्रत्य-जनानां कर्मठता, कर्तव्यनिष्ठा, विनम्रता च कारणतः विशेष-परिचयं धारयति। तेन प्रदेशस्य सर्वेषां कुटुम्बानां उज्ज्वल-भविष्याय शुभाशंसाः प्रदत्ताः, तथा उक्तं यत् एषा देवभूमिः राष्ट्रस्य सांस्कृतिक-धरोहरायाः महत्त्वपूर्णः अंशः अस्ति।
केन्द्रीय-गृहमन्त्री अमितशाह: अवदत् यत् हिमाचल-प्रदेशः प्राकृतिक-सौन्दर्येण सांस्कृतिक-वैभवेन च समृद्धः अस्ति। तेन अयं प्रदेशः शान्तेः, सरलतायाः तथा ‘अतिथि-देवो-भव’ इति परम्परायाः कृते प्रसिद्धः इति उक्तम्। शाहेन कामना कृता यत् प्रदेशः विकासस्य सुशासनस्य च पथे अग्रसरः भवेत्, तथा ब्रजेश्वरी-मातुः कृपया प्रदेशवासिनां कल्याणं भवेत् इति प्रार्थना कृता।
हिन्दुस्थान समाचार / अंशु गुप्ता