मण्ड्यायां प्रधानमन्त्रिणा ‘श्री-गुरु-भैरवैक्य-मन्दिरस्य’ लोकार्पणं कृतम्, रागी-मुड्डे स्वास्थ्यस्य स्रोतः इति उक्तम्
मण्ड्या-जनपदः, १५ अप्रैलमासः (हि.स.)। प्रधानमन्त्रिणा नरेन्द्रमोदिना कर्नाटकस्य मण्ड्या-जनपदे आदिचुञ्चनगिरि-मठस्य दर्शनं कृत्वा ‘श्री-गुरु-भैरवैक्य-मन्दिरस्य’ लोकार्पणं कृतम्। सम्बोधने तेन भारतस्य प्राचीन-परम्पराणां, आध्यात्मिक-धरोहरस्य तथा स्वस्
Pm


Pm adichungiri


PM temple


मण्ड्या-जनपदः, १५ अप्रैलमासः (हि.स.)। प्रधानमन्त्रिणा नरेन्द्रमोदिना कर्नाटकस्य मण्ड्या-जनपदे आदिचुञ्चनगिरि-मठस्य दर्शनं कृत्वा ‘श्री-गुरु-भैरवैक्य-मन्दिरस्य’ लोकार्पणं कृतम्।

सम्बोधने तेन भारतस्य प्राचीन-परम्पराणां, आध्यात्मिक-धरोहरस्य तथा स्वस्थ-जीवन-शैल्याः महत्त्वं प्रतिपादितम्। जल-संरक्षणं, वृक्षारोपणम्, स्वच्छता, ‘वोकल-फॉर-लोकल’, पर्यटन-प्रोत्साहनं, प्राकृतिक-कृषिः, योग-क्रीडा च जीवनस्य अङ्गत्वेन स्वीकरणीयानि इति आग्रहः कृतः।

तथा तेन उक्तं— “रागी-मुड्डे शक्तेः स्रोतः अस्ति” इति, श्री-अन्न-सेवनस्य महत्त्वं च प्रतिपादितम्।

अस्मिन् अवसरे पूर्व-प्रधानमन्त्री एच्. डी. देवेगौडः अपि उपस्थितः आसीत्।

मठेन अन्न-शिक्षा-स्वास्थ्य-आश्रय-पर्यावरण-स्वच्छता-इत्यादिषु क्षेत्रेषु क्रियमाणानि कार्याणि अपि प्रधानमन्त्रिणा प्रशंसितानि।

प्रधानमन्त्रिणा केन्द्र-सर्वकारस्य ‘आयुष्मान-भारत-योजना’ इत्यस्य उल्लेखं कृत्वा उक्तं यत् अस्याः योजनायाः अन्तर्गतं कोटिशः निर्धनाः निःशुल्क-चिकित्सां प्राप्तवन्तः। तेन उक्तं यत् अस्याः योजनायाः परिधिः सप्ततिवर्षात् अधिक-वयस्कानां वरिष्ठ-नागरिकानाम् अपि विस्तारिता अस्ति।

अस्मिन् पावन-अवसरे प्रधानमन्त्रिणा सह पूर्व-प्रधानमन्त्री एच्. डी. देवेगौडः अपि उपस्थितः आसीत्। उभाभ्यां संयुक्तरूपेण ‘सौन्दर्य-लहरी’ तथा ‘शिव-महिम्न-स्तोत्रम्’ इत्ययोः ग्रन्थयोः लोकार्पणम् अपि कृतम्।

कार्यक्रमस्य संचालनं निर्मलानन्दनाथ-स्वामिना कृतम्। प्रधानमन्त्रिणा उपस्थितं जनसमूहं प्रति शुभाशंसाः प्रदत्ताः, तथा विश्वासः व्यक्तः यत् एतत् मन्दिरं भविष्यति काले समाजस्य सेवा-प्रेरणयोः केन्द्रं भविष्यति।

गुरु-भैरवैक्य-मन्दिरम् : आस्था-प्रेरणयोः केन्द्रम्

उल्लेखनीयं यत् नवनिर्मितं ‘श्री-गुरु-भैरवैक्य-मन्दिरम्’ बालगङ्गाधरनाथ-स्वामिनः स्मृत्यर्थं निर्मितं भव्य-स्मारकम् अस्ति। अस्मिन् एव स्थले १३ जनवरी २०१३ तिथौ ते लिङ्गैक्यं प्राप्तवन्तः। प्रायः ८० कोटि-रूप्यक-व्ययेन द्रविड-शिल्प-शैल्यानुसारं निर्मितम् एतत् मन्दिरं पूर्णतया शिलाभिः निर्मितम् अस्ति।

मन्दिरस्य गर्भगृहे स्वामिनः अमृत-शिलया निर्मिता भव्य-प्रतिमा प्रतिष्ठापिता अस्ति। शान्त-पर्यावरणेन आध्यात्मिक-ऊर्जया च परिपूर्णम् एतत् स्थलम् अधुना श्रद्धालूनां कृते आस्था-साधना-प्रेरणानां प्रमुखं केन्द्रं जातम्।

हिन्दुस्थान समाचार / अंशु गुप्ता