Enter your Email Address to subscribe to our newsletters

जौनपुरम्, 15 अप्रैलमासः (हि.स.)। उत्तरप्रदेशस्य जौनपुर-जनपदे वीर बहादुर सिंह पूर्वांचल विश्वविद्यालय अन्तर्गत प्रो. राजेन्द्र सिंह (रज्जू भैया) भौतिक-विज्ञान-संस्थाने भौतिकी-विभागे बुधवासरे “ब्लैक-होल-थर्मोडायनेमिक्स” इति विषयक आमन्त्रित-व्याख्यानस्य आयोजनं कृतम्। अस्मिन् कार्यक्रमे शिक्षकाः, शोधार्थिनः तथा छात्र-छात्र्यः उत्साहेन सहभागी अभवन्।
मुख्य-वक्तृरूपेण के.एल.एस. कॉलेज नवादा (मगध-विश्वविद्यालय, बोधगया) इत्यस्य डॉ. सुधाकर उपाध्याय महोदयः ब्लैक-होलस्य ऊष्मागतिक-गुणान्, हॉकिंग-विकिरणं तथा एण्ट्रॉपी इत्यादीन् जटिल-विषयान् सरलतया प्रभावशालिन्या च पद्धत्या निरूपितवान्। तेन उदाहरणैः सह ब्लैक-होलस्य तापमान-ऊर्जा-एण्ट्रॉपीनाम् अन्तःसम्बन्धः स्पष्टतया व्याख्यातः, येन विद्यार्थिनां विषयस्य गभीर-अवबोधः विकसितः।
कार्यक्रमस्य अध्यक्षतां संस्थानस्य निदेशकः विभागाध्यक्षश्च प्रो. प्रमोद कुमार यादव महोदयः अकरोत्। सः उक्तवान् यत् एतेषां प्रकाराणां व्याख्यानानां माध्यमेन छात्रेषु वैज्ञानिक-चिन्तनं विकसितं भवति तथा ते नूतन-शोध-आयामैः परिचिताः भवन्ति। सः विद्यार्थिनः एतेषु आयोजनेषु सक्रिय-भागीदारीं कर्तुं प्रेरितवान्।
कार्यक्रमस्य संयोजनं डॉ. आलोक कुमार वर्मणा कृतम्, धन्यवाद-ज्ञापनं च प्रो. देवराज सिंहेन प्रस्तुतम्। अस्मिन् अवसरे प्रो. राजकुमार, डॉ. पुनीत कुमार धवन, डॉ. सुजीत चौरसिया, डॉ. नीरज अवस्थी, डॉ. धीरेन्द्र चौधरी, डॉ. काजल डे, डॉ. रामांशु प्रभाकर सिंह, डॉ. संदीप कुमार वर्मा इत्यादयः अनेके प्राध्यापकाः, शोधार्थिनः तथा छात्र-छात्र्यः उपस्थिताः आसन्।
हिन्दुस्थान समाचार