Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, १५ अप्रैलमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमंत्री डॉ.मोहन-यादवः अद्य बुधवासरे मुख्यमंत्री-निवास-स्थिते समत्व-भवने भोपाल-नगरे मध्यप्रदेश-माध्यमिक-शिक्षा-मण्डलस्य (MPBSE) कक्षा-10-12-तथा-विद्यालय-पूर्व-शिक्षा-डिप्लोमा (डी.पी.एस.ई.) मुख्य-परीक्षायाः २०२६-परिणामान् घोषयिष्यति।
जनसम्पर्क-अधिकारी सुनील-वर्मा इत्यनेन सूचितं यत् परिणामः प्रातः ११ वादने प्रकाशितः भविष्यति। तस्मिन् समये माध्यमिक-शिक्षा-मण्डलस्य वेबसाइट्, दूरभाष-तन्त्रांशः तथा डिजिलॉकर-सेवा द्वारा छात्राः स्व-परिणामं द्रष्टुं शक्नुवन्ति।
विद्यार्थिनः एषु वेबसाइट्-द्वये परिणामं द्रष्टुं शक्नुवन्ति—
• https://mpbse.mponline.gov.in • https://www.digilocker.gov.in/web/dashboard/issuers
दूरभाषतन्त्रांशेनापि परिणाम-दर्शनम्
छात्राः अभिभावकाः च गूगल-प्ले-स्टोरतः एम.पी.बी.एस.ई.-दूरभाषतन्त्रांशः अथवा एम.पी.-दूरभाषतन्त्रांशं डाउनलोड् कृत्वा “Know Your Result” विकल्पं चित्वा स्वस्य अनुक्रमांकं आवेदन-क्रमांकं च प्रविश्य परिणामं द्रष्टुं शक्नुवन्ति। अपि च डिजिलॉकर-माध्यमेनापि परिणामः उपलब्धः भविष्यति।
ध्येयम् अस्ति यत् अस्मिन् वर्षे प्रदेशे १०-तथा-१२-बोर्ड-परीक्षायां प्रायः १६ लक्षाधिकाः छात्राः सम्मिलिताः आसन्। तेषु प्रायः ९ लक्षाधिकाः १०-कक्षायां तथा प्रायः ७ लक्षाधिकाः १२-कक्षायां परीक्षां दत्तवन्तः। प्रदेशे ३८५६ परीक्षा-केन्द्राणि स्थापितानि आसन्।
परीक्षा-समये छात्राणां स्वास्थ्य-विषयेऽपि विशेषज्ञैः महत्त्वपूर्णा विचाराः दत्ताः— यत् अभिभावकाः बालकेषु अनावश्यक-बलं न कुर्वन्तु, मानसिक-सहाय्यं च दद्युः। सम्यक् दिनचर्या, पर्याप्त-निद्रा तथा संतुलित-आहारः उत्तम-प्रदर्शनाय सहायकः भवति।
हिन्दुस्थान समाचार / अंशु गुप्ता