Enter your Email Address to subscribe to our newsletters

कोलकाता, 15 अप्रैलमासः (हि. स.)।पश्चिमबङ्गालस्य मुख्यमन्त्री ममता बनर्जी बंगाली नववर्षस्य अवसरः राज्यवासिनः प्रति शुभाशंसाः दत्त्वा एकं दृश्यसन्देशं प्रकाशितवती। अस्मिन् सन्देशे सा राज्यस्य सांस्कृतिकपरम्परायाः सामाजिकसौहार्दस्य च संरक्षणे बलं दत्तवती।
ममता बनर्जी स्वसन्देशे उक्तवती यत् बङ्गालः सदा कला संस्कृति सर्वधर्मसमन्वयस्य भूमिः आसीत् किन्तु केचन अशुभशक्तयः अस्य हानिं कर्तुं प्रयतन्ते। सा आरोपितवती यत् जनानां लोकतान्त्रिकाधिकाराः अपह्रियन्ते तथा च जनैः अस्य उत्तरं लोकतान्त्रिकरीत्या दातव्यम्।
मुख्यमन्त्री जनान् प्रति आह्वानं कृतवती यत् ते सर्वाणि संकीर्णभावान् त्यक्त्वा एकतया तिष्ठन्तु तथा राज्यस्य शान्तिं परम्परां परस्परसौहार्दं च रक्षन्तु। सा उक्तवती यत् काचित् अपि विभाजनकारी निरङ्कुश वा शक्ति एतां एकतां भङ्गं कर्तुं न शक्नुयात् अतः सर्वैः सजगैः भवितव्यम्।
तथा च ममता बनर्जी आगामिविधानसभानिर्वाचनस्य सन्दर्भे मतदातॄन् स्वस्य लोकतान्त्रिकाधिकारस्य प्रयोगं कर्तुं आह्वानं कृतवती। सा तृणमूलकाङ्ग्रेसदलस्य प्रत्याशिनः जोडाफूल् निर्वाचनचिह्ने मतं दत्त्वा विजयीकर्तुं अपि आग्रहं कृतवती।
हिन्दुस्थान समाचार