नारी शक्ति वन्दन अधिनियममाधृत्य अद्य विविध कार्यक्रमो, मुख्यमंत्री सायः  सम्मेलिष्यते
रायपुरम् 15 अप्रैलमासः (हि.स.)। नारी-शक्ति-वन्दन-अधिनियमस्य विषये निर्धारित-कार्यक्रमानुसारं अद्य बुधवासरे पं-दीनदयाल-उपाध्याय-ऑडिटोरियमस्य टाउन-हॉल-मध्ये कार्यक्रमः आयोजितः अस्ति। कार्यक्रमस्य प्रभारी रायपुर-नगरस्य महापौरा मीनल-चौबे तथा पार्षदा
नारी शक्ति वन्दन अधिनियममाधृत्य अद्य विविध कार्यक्रमो, मुख्यमंत्री सायः  सम्मेलिष्यते


रायपुरम् 15 अप्रैलमासः (हि.स.)। नारी-शक्ति-वन्दन-अधिनियमस्य विषये निर्धारित-कार्यक्रमानुसारं अद्य बुधवासरे पं-दीनदयाल-उपाध्याय-ऑडिटोरियमस्य टाउन-हॉल-मध्ये कार्यक्रमः आयोजितः अस्ति।

कार्यक्रमस्य प्रभारी रायपुर-नगरस्य महापौरा मीनल-चौबे तथा पार्षदा कृतिका-जैन उक्तवत्यौ यत् अद्य अपराह्णे १२ वादने आजाद-चौकात् स्कूटी-रैली निर्गमिष्यति या पं-दीनदयाल-उपाध्याय-ऑडिटोरियम-पर्यन्तं गमिष्यति। अपराह्णे २ वादने ऑडिटोरियम-मध्ये टाउन-हॉल-कार्यक्रमस्य आयोजनं भविष्यति।

अस्मिन् टाउन-हॉल-कार्यक्रमे प्रमुखतया मुख्यमन्त्री विष्णुदेव-साय, भाजपा-प्रदेशाध्यक्षः किरण-देव, भाजपा-राष्ट्रीय-उपाध्यक्षः सरोज-पाण्डेय, महिला-बाल-विकास-मन्त्री लक्ष्मी-रजवाडे, पद्मश्री-उषा-बारले, अन्ताष्ट्रिय-हॉकी-क्रीडका नीता-डूमरे, डॉ-शुभ्रा-मिश्रा, राज्यसभा-सांसदः लक्ष्मी-वर्मा, सांसदः रूपकुमारी-चौधरी च उपस्थिताः भविष्यन्ति।

टाउन-हॉल-कार्यक्रमस्य समाप्तेः अनन्तरं ‘नारी-शक्ति-पदयात्रा’ सायं ५ वादने आरभ्य अनुपम-गार्डन-पर्यन्तं गमिष्यति तथा तत्र एव समाप्यते।

हिन्दुस्थान समाचार