प्रधानमंत्री मोदी उत्सवानामवसरे कृषकेभ्यः प्रकटितः आभारः
नवदिल्ली, 15 अप्रैलमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी देशव्यापि विविधोत्सवानां अवसरं प्रति कृषकाणां प्रति कृतज्ञतां व्यक्तवान्। तेन उक्तं यत् एतेषु उत्साहोल्लासपूर्णेषु पर्वसु मध्ये राष्ट्रं तेषां परिश्रमशीलानां कृषकभ्रातृभगिनीनां प्रति कृत
प्रधानमंत्री नरेन्द्र मोदी (फाइल फोटो)।


नवदिल्ली, 15 अप्रैलमासः (हि.स.)।

प्रधानमन्त्री नरेन्द्रमोदी देशव्यापि विविधोत्सवानां अवसरं प्रति कृषकाणां प्रति कृतज्ञतां व्यक्तवान्। तेन उक्तं यत् एतेषु उत्साहोल्लासपूर्णेषु पर्वसु मध्ये राष्ट्रं तेषां परिश्रमशीलानां कृषकभ्रातृभगिनीनां प्रति कृतज्ञम् अस्ति, ये सम्पूर्णस्य राष्ट्रस्य भरणपोषणं कुर्वन्ति।

प्रधानमन्त्री मोदी बुधवासरे सामाजिकमाध्यममञ्चे ‘एक्स’ इत्यत्र एकं संस्कृतसुभाषितं साझीकृतवान्, येन कृषकाणां योगदानं प्रकाश्यते। तेन लिखितम्— “इत्थं फलति शुद्धेन सिक्तं सङ्कल्पवारिणा।

पुण्यबीजमपि स्वल्पं पुंसां कृषिकृतामिव॥”

अस्य सुभाषितस्य अर्थं विवृण्वन् सः अवदत् यथा कृषकेन रोपितं लघु बीजम् अपि यदि समये सम्यक् सिंचनं प्राप्नोति तर्हि समृद्धां फसलं ददाति, तथैव शुद्धसंकल्पेन प्रयासेन च कृतः लघ्वारम्भः अपि महान् सफलतारूपे परिणमति।

प्रधानमन्त्री स्वसन्देशे पुनरुक्तवान् यत् देशस्य विभिन्नेषु भागेषु मन्यमानेषु एतेषु उत्सवकालेषु कृषकाणां परिश्रमः स्मर्तव्यः, तेषां सम्मानः च अत्यन्तावश्यकः।

---------------

हिन्दुस्थान समाचार