कर्नाटक-प्रवासे अद्य प्रधानमन्त्री नरेन्द्र-मोदी आदिचुञ्चनगिरौ श्री-गुरु-भैरवैक्य-मन्दिरस्य उद्घाटनं करिष्यति
बेंगलूरुनगरम्, १५ अप्रैलमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र-मोदी अद्य कर्नाटक-प्रवासे भविष्यति। सः प्रातः प्रायः ११ वादने श्री-क्षेत्र-आदिचुञ्चनगिरिं प्राप्स्यति, यत्र सः श्री-गुरु-भैरवैक्य-मन्दिरस्य उद्घाटनं करिष्यति। अस्मिन् अवसरे प्रधानमन्त्री
Pm


बेंगलूरुनगरम्, १५ अप्रैलमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र-मोदी अद्य कर्नाटक-प्रवासे भविष्यति। सः प्रातः प्रायः ११ वादने श्री-क्षेत्र-आदिचुञ्चनगिरिं प्राप्स्यति, यत्र सः श्री-गुरु-भैरवैक्य-मन्दिरस्य उद्घाटनं करिष्यति। अस्मिन् अवसरे प्रधानमन्त्री जनसभाम् अपि सम्बोधयिष्यति। प्रधानमन्त्री मोदी पूर्व-प्रधानमन्त्री एच.डी.देवेगौडेन सह संयुक्तरूपेण “सौन्दर्य-लहरी” तथा “शिव-महिम्न-स्तोत्रम्” इति ग्रन्थयोः विमोचनम् अपि करिष्यति।

श्री-गुरु-भैरवैक्य-मन्दिरं श्री-आदिचुञ्चनगिरि-महासंस्थान-मठस्य एकसप्ततितम-पीठाधीश्वराय डॉ.बालगङ्गाधरनाथ-महास्वामिने समर्पितं स्मारकम् अस्ति। पारम्परिक-द्रविड-वास्तुशिल्प-शैल्या निर्मितम् एतत् मन्दिरं दिवंगत-सन्तस्य जीवनं, तस्य योगदानं परम्परां च समर्पितम् अस्ति। मन्दिरं केवलं पूजास्थलरूपेण न, अपितु अग्रिम-वंशानां प्रेरणाकेन्द्ररूपेण अपि विकसितम् अस्ति।

डॉ.बालगङ्गाधरनाथ-महास्वामी अनेकानि शैक्षणिक-संस्थानानि स्वास्थ्य-सुविधाश्च स्थापितवान्। तस्य मतम् आसीत् यत् समाजसेवा एव सर्वोच्चा पूजा। तस्य शिक्षाः जाति-धर्म-प्रदेश-सीमान् अतिक्रम्य लक्षशः जनान् प्रेरितवन्त्यः।

हिन्दुस्थान समाचार / अंशु गुप्ता