प्रधानमन्त्रीमोदिना पारम्परिक-नववर्षस्य तथा शस्य-पर्वाणां अवसरॆ देशवासिभ्यः शुभाशंसाः प्रदत्ताः
नवदिल्ली, १५ अप्रैलमासः (हि.स.)। प्रधानमन्त्रिणा नरेन्द्रमोदिना देशवासिभ्यः विभिन्न-पारम्परिक-नववर्ष-पर्वाणां तथा शस्य-पर्वाणां अवसरॆ शुभाशंसाः प्रदत्ताः।प्रधानमन्त्रिणा ‘विशु’-पर्वणः पावनावसरे सर्वेभ्यः अभिनन्दनं कृत्वा सामाजिक-माध्यम-मञ्चे ‘एक्स’
प्रधानमंत्री नरेन्द्र मोदी


नवदिल्ली, १५ अप्रैलमासः (हि.स.)। प्रधानमन्त्रिणा नरेन्द्रमोदिना देशवासिभ्यः विभिन्न-पारम्परिक-नववर्ष-पर्वाणां तथा शस्य-पर्वाणां अवसरॆ शुभाशंसाः प्रदत्ताः।प्रधानमन्त्रिणा ‘विशु’-पर्वणः पावनावसरे सर्वेभ्यः अभिनन्दनं कृत्वा सामाजिक-माध्यम-मञ्चे ‘एक्स’ इत्यत्र लिखितं यत्— “विशु-पर्वणः शुभावसरे सर्वेषां देशवासिनां शुभाशंसाः।” तेन उक्तं यत् एषः उत्सवः आशा-हर्षयोः प्रतीकः अस्ति, सः सकारात्मकतायाः सर्वेषां प्रति कृतज्ञतायाः च बोधं वर्धयति। आगामि-वर्षं आनन्देन, समृद्ध्या, उत्तम-स्वास्थ्येन च परिपूर्णं भवेत्, नूतन-अवसरान्, सफलतां, सर्वत्र शान्तिं च आनयतु इति तेन कामना कृता।

प्रधानमन्त्रिणा ‘रोंगाली-बिहू’-पर्वणः अवसरॆ अपि जनान् प्रति शुभाशंसाः प्रदत्ताः। स्वसन्देशे तेन उक्तं यत् एषः सजीवः उत्सवः नूतन-आरम्भस्य, समृद्धेः, एकतायाः च भावनायाः उत्सवम् अस्ति। एषः उत्सवः असमिया-संस्कृतेः सौन्दर्यं प्रदर्शयति, या सर्वत्र लोकप्रियतां प्राप्नोति। तेन सर्वेषां सफलतायाः, सुखस्य, उत्तम-स्वास्थ्यस्य च परिपूर्ण-वर्षाय प्रार्थना कृता।

प्रधानमन्त्रिणा देशवासिभ्यः ‘पोइला-बोइशाख’-पर्वणः अवसरॆ अपि अभिनन्दनं प्रदत्तम्। तेन लिखितं— “शुभो नबोबर्षो! पोइला-बोइशाख-पर्वणि शुभाशंसाः।” प्रधानमन्त्रिणा उक्तं यत् अग्रिम-वर्षं सर्वासां इच्छानां पूर्तेः प्रतीकं भवेत्, सुखस्य भ्रातृत्वस्य च भावना सदा वर्तताम्। तेन सर्वेषां उत्तम-स्वास्थ्यस्य बहूनां सुखानां च कामना कृता। एषः अवसरः पश्चिम-बङ्गाल-प्रदेशस्य संस्कृतेः शाश्वत-समृद्धेः उत्सवः अपि अस्ति, या राष्ट्रस्य सभ्यतायाः भावनां आकारितवती अस्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता