शपथ ग्रहणात् पूर्व सम्राट चाैधरी पंचमुखी हनुमान मंदिरे अकरोत्पूजाम्
पटना, 15 अप्रैलमासः (हि.स.)। राजग विधायकदलस्य नेता सम्राट् चौधरी मुख्यमंत्रीपदस्य शपथग्रहणात् पूर्वं बुधवासरे भगवानस्य आशीर्वादं प्रार्थितवान्। सम्राट् चौधरी प्रातःकाले राजवंशीनगरस्थिते पंचमुखी हनुमानमन्दिरे पूजाम् अकरोत्। मन्दिरस्य पूजारिणा तस्म
मंदिर के अंदर जाते सम्राट चाैधरी


पटना, 15 अप्रैलमासः (हि.स.)।

राजग विधायकदलस्य नेता सम्राट् चौधरी मुख्यमंत्रीपदस्य शपथग्रहणात् पूर्वं बुधवासरे भगवानस्य आशीर्वादं प्रार्थितवान्। सम्राट् चौधरी प्रातःकाले राजवंशीनगरस्थिते पंचमुखी हनुमानमन्दिरे पूजाम् अकरोत्। मन्दिरस्य पूजारिणा तस्मै तिलकं कृत्वा आशीर्वादः प्रदत्तः।

सम्राट् चौधरीसह विजय चौधरी तथा बिजेन्द्र यादव उपमुख्यमंत्रीपदस्य शपथं गृह्णीयाताम्। शपथग्रहणानन्तरं सम्राट् चौधरी बिहारस्य चतुर्विंशतितमः मुख्यमंत्री भविष्यति। तस्य नेतृत्वे बिहारराज्ये प्रथमवारं भाजपानेतृत्वयुक्ता सरकारः स्थापिता भविष्यति। एषः राजनैतिकपरिवर्तनः नीतीशकुमारस्य राज्यसभासदस्यत्वग्रहणेन तथा मुख्यमंत्रीपदत्यागेन सम्भवितः।

---------------

हिन्दुस्थान समाचार