Enter your Email Address to subscribe to our newsletters

नागरकोविलनगरम् (तमिलनाडु), १५ अप्रैलमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र-मोदी अद्य तमिलनाडु-राज्यस्य नागरकोविल-नगरे सायंकाले भव्य-शोभायात्रायां सहभागितां करिष्यति। अस्यां शोभायात्रायां भारतीय-जनता-पक्ष-नीत-राष्ट्रीय-जनतान्त्रिक-गठबन्धनस्य (एनडीए) अभ्यर्थिनः प्रमुख-नेतारश्च उपस्थिताः भविष्यन्ति।
तमिलनाडु-विधानसभा-निर्वाचने अद्य गणनानुसारं केवलम् एकः सप्ताहः एव अवशिष्टः अस्ति। प्रधानमन्त्री मोदी देहलीतः विशेष-विमानेन केरल-राज्यस्य तिरुवनन्तपुरम्-विमानतलम्आगमिष्यति। तत्रतः सः अपराह्णे ३:३० वादने विशेष-हेलिकॉप्टर-विमानेन प्रस्थितः सायं ४:१० वादने नागरकोविलं प्राप्स्यति। ततः ४:१५ वादने हेलिपदात् वेप्पमूडु-क्षेत्रं प्रति वाहनद्वारा गमिष्यति।
प्रधानमन्त्री सायं ४:३० तः ५:३० वादन-पर्यन्तं वेप्पमूडु-प्रदेशात् वडसेरी-प्रदेशं यावत् प्रायः १.५ किलोमीटर-दीर्घ-भव्य-शोभायात्रायां सहभागितां करिष्यति। अनन्तरं सः सायं ५:४५ वादने नागरकोविलतः हेलिकॉप्टरविमानेन तिरुवनन्तपुरं प्रति प्रस्थितः भविष्यति, ततः च सायं ६:२० वादने विशेष-विमानेन देहलीं प्रत्यागमिष्यति।
कोयम्बत्तूर-नगरे १८ अप्रैल-दिने प्रधानमन्त्रिणः जनसभा
१८ अप्रैलमासे कोयम्बत्तूर-नगरे आयोज्यमानायां जनसभायां अपि प्रधानमन्त्री मोदी सहभागितां करिष्यति। अस्मात् पूर्वं प्रधानमन्त्री चेंगलपट्टु-जनपदस्य मदुरान्तकम् तथा मदुरै-नगरे जनसभाः सम्बोधितवान्।
हिन्दुस्थान समाचार / अंशु गुप्ता