Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 15 अप्रैलमासः (हि.स.)। सेनया ‘सूर्यदेवभूमि चैलेंज 2.0’ इति आयोजनं १६ तः २० एप्रिल् पर्यन्तं उत्तराखण्डस्य गढ़वाल हिमालयप्रदेशे आयोजितं भविष्यति। बद्रीकेदार पन्थानमार्गे चमोली तथा रुद्रप्रयाग जिलयोः मध्ये ११३ किलोमीटरपरिमितं धैर्याधारितम् आयोजनं सम्पन्नं भविष्यति। अस्य आयोजनस्य उद्देशः साहसिकक्रीडाभिः माध्यमेन विरासत्संरक्षणं, पर्यटनवृद्धिः तथा स्थानीयविकासस्य प्रोत्साहनं च अस्ति।
अस्यां चुनौतीपूर्णप्रतियोगितायां पञ्चकेदारस्य त्रयः प्रमुखधामाः कल्पेश्वरः, रुद्रनाथः तथा तुंगनाथः समाविष्टाः सन्ति। अस्मिन् आयोजने कुलं ३०० प्रतिभागिनः भागं गृह्णन्ति, येषु २०० नागरिकाः पुरुषाः महिलाश्च तथा १०० सेवाकर्मिणः सन्ति। प्रतिभागिनां कृते विभिन्नवयोवर्गेषु १४ लक्षरूप्यकाधिकस्य पुरस्कारराशिः निर्धारिताऽस्ति।
प्रतियोगिता त्रिषु चरणेषु आयोजिता भविष्यति। प्रथमदिने हेलंगतः कलगोट पर्यन्तं ३६ किलोमीटरपरिमिता धावनस्पर्धा भविष्यति, द्वितीयदिने कलगोटतः मण्डल पर्यन्तं ३९ किलोमीटरपरिमिता, तृतीयदिने मण्डलतः उखीमठ पर्यन्तं ३८ किलोमीटरपरिमिता धावनस्पर्धा आयोजिता भविष्यति।
एतत् आयोजनं वाइब्रेंट् विलेज कार्यक्रमस्य अन्तर्गतं सीमावर्तीक्षेत्रेषु रोजगारसृजनं पर्यटनवृद्धिं च प्रोत्साहयति, तथा च सेनायाः राष्ट्रनिर्माणे जनसहयोगे च प्रतिबद्धतां दर्शयति।
हिन्दुस्थान समाचार