एआई केवलं प्रौद्योगिकी न, अपितु मानवीय-क्रान्तिः अस्ति : उपराष्ट्रपतिः
नवदिल्ली, १५ अप्रैलमासः (हि.स.)। उपराष्ट्रपतिना सी.पी.राधाकृष्णनेन उक्तं यत् कृत्रिम-बुद्धिमत्ता (एआई) केवलं प्रौद्योगिकी-क्रान्तिः न, अपितु “मानवीय-क्रान्तिः” अस्ति, या सुशासनस्य समावेशी-समाज-निर्माणस्य च कृते उत्तरदायित्वेन दूरदृष्ट्या च स्वीकरणी
आईआईपीए के स्थापना दिवस समारोह में केंद्रीय मंत्री जितेंद्र सिंह, उपराष्ट्रपति सी. पी. राधाकृष्णन, आईआईपीए के महानिदेशक डॉ. सुरेंद्र कुमार बागडे।


नवदिल्ली, १५ अप्रैलमासः (हि.स.)। उपराष्ट्रपतिना सी.पी.राधाकृष्णनेन उक्तं यत् कृत्रिम-बुद्धिमत्ता (एआई) केवलं प्रौद्योगिकी-क्रान्तिः न, अपितु “मानवीय-क्रान्तिः” अस्ति, या सुशासनस्य समावेशी-समाज-निर्माणस्य च कृते उत्तरदायित्वेन दूरदृष्ट्या च स्वीकरणीया।

भारतीय-लोक-प्रशासन-संस्थाने (आईआईपीए) ७२तम-स्थापना-दिवस-समारोहे मुख्यातिथित्वेन सम्बोधयन् तेन ‘सुशासनाय एआई’ इति विषयकं व्याख्यानम् अपि प्रदत्तम्। तेन प्रथम-राष्ट्रपतिम् डॉ.राजेन्द्र-प्रसादम् प्रति श्रद्धाञ्जलिः अर्पिता, तस्य जीवनं सरलता, सत्यता, लोक-सेवा च मूल्यानां प्रतीकः इति उक्तम्।

तेन उक्तं यत् विश्वम् अद्य एआई-युगे प्रविष्टम्, यत्र यन्त्राणि अधीयन्ते, प्रणालीः चिन्तयितुं आरभन्ते च। एआई शासनं अधिकं तीव्रं, पारदर्शकं, उत्तरदायी च करोति, योजनानां लाभं अन्तिम-जनपर्यन्तं प्रापयितुं सहायकरूपेण कार्यं करोति।

तेन अपि उक्तं यत् २०४७ पर्यन्तं विकसित-भारत-लक्ष्यस्य सिद्धौ एआई महत्त्वपूर्णां भूमिकां निर्वहिष्यति। ‘भाषिणी’ इत्यादि एआई-आधारित-मञ्चानां माध्यमेन भाषिक-बाधाः अपि निवार्यन्ते। स्वास्थ्य-क्षेत्रे अपि एआई-प्रयोगेन ‘ई-संजीवनी’ इत्यादि माध्यमैः दूरस्थ-प्रदेशेषु सेवाः प्रदीयन्ते।

उपराष्ट्रपतिना युवभ्यः एआई-प्रौद्योगिकी-स्वीकाराय आह्वानं कृतम्, तथापि नैतिकता, पारदर्शिता, उत्तरदायित्वं च अनिवार्यं भवेत् इति अपि सूचितम्। तेन उक्तं यत् एआई समाजं अधिकं न्यायपूर्णं, समावेशी, संवेदनशीलं च कर्तुं प्रयोजनीयम्।

अस्मिन् अवसरे केन्द्रीय-मन्त्री डॉ. जितेन्द्रसिंहः, आईआईपीए-महानिदेशकः डॉ.सुरेन्द्रकुमार-बागडे, अन्ये विशिष्ट-अतिथयः, संकाय-सदस्याः प्रतिभागिनः च उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता