Enter your Email Address to subscribe to our newsletters

कोलकाता-नगरम्, १५ अप्रैलमासः (हि.स.)। पश्चिम-बङ्ग-राज्यस्य विधानसभानिर्वाचन-२०२६ सन्दर्भे राजनैतिक-वक्तव्य-प्रक्रिया तीव्रा जाता। केन्द्रीय-वित्त-मन्त्री निर्मला-सीतारमण: पूर्व-बर्धमान-प्रदेशात् उक्तवती यत् राज्यस्य जनताऽधुना परिवर्तनम् इच्छति, तस्मै च अत्यन्तम् उत्सुका अस्ति।
बुधवासरे निर्वाचन-दौरे बर्धमान-नगरं प्राप्ता सा अवदत् यत् अद्य जनाः परिवर्तनाय अत्यधिकं उत्सुकाः दृश्यन्ते। २०१६-वर्षे अपि सा अत्र प्रचारार्थम् आगता आसीत्, किन्तु अस्मिन् पर्याये वातावरणं भिन्नम् अस्ति। अधुना जनाः स्वस्य समस्याः स्पष्टतया निवेदयन्ति तथा उत्तम-प्रशासनस्य अपेक्षां कुर्वन्ति।
सा अपि उक्तवती यत् यद्यपि जनाः प्रत्यक्षतया सर्वं न वदन्ति, तथापि ते स्पष्टं संकेतं ददति यत् ते वर्तमान-स्थित्या सन्तुष्टाः न सन्ति। अस्माकं नेतृभ्यः यः समर्थनं प्राप्यते, तत् अत्यन्तं उत्साहजनकम् अस्ति। अस्मिन् वारे बङ्गाले परिवर्तनं नूनं भविष्यति इति सा मन्यते।
पूर्वम् अपि केन्द्रीय-मन्त्रिणा संसदे तृणमूल-काङ्ग्रेस-विरुद्धं आरोपाः कृताः आसन्। तया उक्तं यत् राज्य-सर्वकारेण चाय-उद्यान-श्रमिकान् प्रति अन्यायः क्रियते। तस्याः अनुसारं राज्ये प्रायः ३,७९,००० चाय-श्रमिकाः सर्वकारी-सुविधाभ्यः वञ्चिताः सन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता