Enter your Email Address to subscribe to our newsletters

--वेब आधारितः अनुप्रयोगः ‘एनसीआर-सफरः’
प्रयागराजः, 15 अप्रैलमासः (हि.स.)। उत्तर-मध्य-रेलवे-स्य महाप्रबन्धकः नरेश पाल सिंह बुधवासरे “एनसीआर-सफर—रेलवे-कर्मचारिणां कृते आवास-सुविधानां च आवंटनम्” इति जालाधारित-अनुप्रयोगस्य शुभारम्भम् अकरोत्।
एतां सूचना मुख्य-जनसम्पर्क-अधिकारी शशि कांत त्रिपाठी प्रदत्तवान्। सः अवदत् यत् एनसीआर-सफर नाम केंद्रीकृतं जालाधारितम् अनुप्रयोगम् अस्ति, यत् उत्तर मध्य रेलवे अन्तर्गत-अवकाश-गृहाणां अधीनस्थ-विश्राम-गृहाणां च ऑनलाइन-आरक्षणाय पारदर्शक-आवंटनाय च विकसितम् अस्ति। एषः अनुप्रयोगः भारतीय-रेल-कर्मचारिभ्यः देशस्य सर्वेषु भागेषु उपलब्धः अस्ति।
तेन उक्तं यत् अयं अनुप्रयोगः आईटी-सेल-एनसीआर-स्य अधिकारीभिः आशीष-कुमारः, अमित-कुमारः, अनिल-कुमार-पटेल इत्येभिः अतुल कुमार मिश्रा-स्य मुख्य-प्रबन्धक-सूचना-प्रौद्योगिकी उप-महाप्रबन्धक-सामान्य-च मार्गदर्शने विकसितः। अस्य उपक्रमस्य उद्देश्यम् आवंटन-प्रक्रियायाः डिजिटलीकरणं सरलीकरणं च अस्ति।
एनसीआर-सफर-अनुप्रयोगस्य प्रमुख-विशेषताः—
ओटीपी-आधारित-पंजीकरणम्, यत्र अनिवार्ये एचआरएमएस-परिचय-संख्या पीएफ-संख्या च भवतः
अवकाश-गृह-विश्राम-गृहयोः केंद्रीकृत-ऑनलाइन-आरक्षण-सुविधा
यथाकाल-उपलब्धता स्थान-आधारित-अन्वेषण-व्यवस्था च
पारदर्शक-ऑनलाइन-अनुमोदन-प्रक्रिया
क्यूआर-कोड-आधारित-आरक्षण-रसीद्
उपयोक्ता-प्रशासक-परिचारक-इत्येभ्यः पृथक्-पटलानि (डैशबोर्ड्)
आरक्षण-स्थिति (स्वीकृत-लम्बित-अस्वीकृत) इत्यस्य ऑनलाइन-अनुसरणम्
कक्षाणां उपलब्धता आवंटन-प्रबन्धन-व्यवस्था च
स्वचालित-प्रतिवेदन-निरीक्षण-सुविधा
वरिष्ठ-जनसम्पर्क-अधिकारी अमित मालवीय अवदत् यत् एषा प्रणाली आरक्षणात् अनुमोदन-प्रक्रियायाः आरभ्य प्रवेश-निर्गमन-पर्यन्तं सम्पूर्णां प्रक्रियां डिजिटलीकृत्य हस्तचालित-प्रणालीं निराकरोति। अनेन समय-रक्षणं, पारदर्शिता, कार्यकुशलता च वर्धते। एषा कर्मचारिभ्यः सुविधा उत्तरदायित्वं उत्तम-उपयोक्ता-अनुभवम् च सुनिश्चितं करिष्यति।
महाप्रबन्धकेन आईटी-सेल-एनसीआर-स्य प्रयासाः प्रशंसिताः तथा उत्तम-प्रशासनाय सेवा-वितरणस्य च कृते डिजिटल-प्रौद्योगिकीनां प्रयोगे बलं दत्तम्। सः उक्तवान् यत् अस्य आरम्भः उत्तर मध्य रेलवे-मध्ये आधुनिकीकरणस्य डिजिटल-परिवर्तनस्य च दिशि एकं महत्त्वपूर्णं चरणम् अस्ति।
---------------
हिन्दुस्थान समाचार