Enter your Email Address to subscribe to our newsletters

अयोध्यानगरम्, १६ अप्रैलमासः (हि.स.)। डॉ.भीमराव-अम्बेडकर-जयन्ती-सप्ताहस्य अन्तर्गतं भारतीय-जनता-पक्षस्य जनप्रतिनिधयः पदाधिकारिणश्च रामनगरी-अयोध्या-महानगर-क्षेत्रस्य २१ अनुसूचित-बस्तिषु गृहं गृहं सम्पर्क-अभियानं कुर्वन्ति। अभियानकाले कार्यकर्तारः जनानां समीपे गत्वा सर्वकारी-योजनानां सम्बन्धे पत्रक-वितरणं कुर्वन्ति तथा विविध-योजनानां विषये सूचनां ददति।
अस्मिन् जनसंपर्क-अभियाने पूर्व-सांसदः लल्लू-सिंहः भदोखर-क्षेत्रे, महापौरः गिरीश-पति-त्रिपाठी रामचन्द्र-परमहंस-वार्ड-इत्यत्र, महानगराध्यक्षः कमलेश-श्रीवास्तवः आचार्य-नरेन्द्र-देव-नगर-वार्ड-इत्यत्र च सम्पर्कं कुर्वन्ति। जनपद-पञ्चायत-अध्यक्षः रोली-सिंहः पाराखान-क्षेत्रे, पूर्व-महापौरः ऋषिकेश-उपाध्यायः सीताकुण्ड-वार्डे, पूर्व-महानगराध्यक्षः अभिषेक-मिश्रः सरेठी-क्षेत्रे च जनसंपर्कं कृतवन्तः। तथा च भाजपानेतारौ अमल-गुप्तः हरभजन-गौडश्च ददेरा-क्षेत्रे जनैः सह संवादं कृतवन्तौ।
अपरासु अभिरामदास-वार्ड, पुरूषोत्तम-नगरम्, वशिष्ठ-कुण्डः, हनुमान-कुण्डः, झलकारी-बाई-वार्डः, दर्शन-नगरम्, बड़ी-देवकाली, अश्वनीपुरम्, श्यामा-प्रसाद-मुखर्जी-वार्ड, रविदास-नगरम्, टोनिया, अकवारा, अलावलपुरम्, चरेरा, मित्रसेनपुरम् इत्यादिषु बस्तिषु अपि कार्यकर्तारः सक्रियतया जनसंपर्कं कुर्वन्ति।
महानगराध्यक्षः कमलेश-श्रीवास्तवः उक्तवान् यत् एतत् अभियानं समाजस्य अन्तिम-व्यक्तिपर्यन्तं योजनानां लाभं प्रापयितुम् आयोजितः अस्ति। कार्यकर्तारः गृहं गृहं गत्वा जनैः सह संवादं कुर्वन्ति तथा योजनानां विषये जागरूकतां वर्धयन्ति।
अभियाने पूर्व-जनपदाध्यक्षः ओम-प्रकाश-सिंहः, शैलेन्द्र-कोरी, रञ्जना-सागरः, रवि-सोनकरः, प्रमोद-साहू, बालकृष्ण-वैश्यः, तिलकराम-मौर्यः, दिनेश-कन्नौजिया, रवि-शर्मा, शशि-प्रताप-सिंहः, अरविन्द-सिंहः, रामप्रीत-वर्मा, सूरज-सोनकरः, मुकेश-तिवारी, कपिलदेव-वर्मा इत्यादयः बहवः पदाधिकारी-कार्यकर्तारश्च संलग्नाः सन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता