तीवा-जनजातेः कृषि-आधारितः “लखमी-आदरा” उत्सवः २२ तः आरभ्यते
मोरीगांव (असम), १६ अप्रैलमासः (हि.स.)। प्रत्येक-पञ्चवर्षानन्तरं तीवा-जनजातेः कृषि-आधारितः “लुखुमी-याङ्गली” अथवा “लखमी-आदरा” उत्सवः उत्साहेन आयोज्यते। अस्मिन् वर्षे अपि कार्बी-आङ्गलोंग-जनपदान्तर्गत-उमसुआई-स्थिते आमसाङ्ग-पिनुङ्ग-ग्रामे २२, २३, २४ अप्
कार्बी आंगलोंग जिले में तिवा उत्सव के दौरान आदिवासी लोग (सांकेतिक)


मोरीगांव (असम), १६ अप्रैलमासः (हि.स.)। प्रत्येक-पञ्चवर्षानन्तरं तीवा-जनजातेः कृषि-आधारितः “लुखुमी-याङ्गली” अथवा “लखमी-आदरा” उत्सवः उत्साहेन आयोज्यते। अस्मिन् वर्षे अपि कार्बी-आङ्गलोंग-जनपदान्तर्गत-उमसुआई-स्थिते आमसाङ्ग-पिनुङ्ग-ग्रामे २२, २३, २४ अप्रैल-दिनेषु त्रिदिवसीय-कार्यक्रमरूपेण एषः उत्सवः भविष्यति। अस्य कृते ग्रामवासिभिः पूर्वमेव सज्जता आरब्धा।

आयोजन-समित्याः आह्वानेन पर्वतीय-भूमि-प्रदेशेषु निवसन्तः तीवा-जनाः तथा अन्येऽपि जनाः उत्सवे सहभागित्वाय आमन्त्रिताः सन्ति। एतद्विषये जागीरोड-स्थिते ऐतिहासिक-गोभा-देवराज-शिवस्थान-क्षेत्रे आयोजिते पत्रकार-सम्मेलने सूचना प्रदत्ता।

तस्मिन् सम्मेलन गोभा-राजा दीपसिंह-देवराजः, प्रबन्धन-समितेः अध्यक्षः नागेन-कोंवरः, सचिवः जुरसिंह-बोरदोलोई तथा अन्ये सदस्याः उपस्थिताः आसन्। तैः उक्तं यत् अस्य वर्षस्य उत्सवः अत्यन्तं आकर्षकः भव्यश्च भविष्यति, यस्य सज्जता अन्तिम-चरणे वर्तते।

हिन्दुस्थान समाचार / अंशु गुप्ता