Enter your Email Address to subscribe to our newsletters

भोपाल-नगरम्, १६ अप्रैलमासः (हि.स.)।‘नारी-शक्ति-वन्दन’ कार्यक्रमस्य अन्तर्गतं भोपाल-नगर-निगम-परिषदः विशेष-सम्मेलनम् अद्य गुरुवासरे प्रातः ११ वादने आयोजितं भविष्यति। आई.एस.बी.टी.-स्थिते निगम-मुख्यालयस्य मीटिंग-हॉल-मध्ये आयोजिते अस्मिन् सम्मेलने महिला-सशक्तीकरण-संबद्धेषु विषयेषु विस्तृत-चर्चा भविष्यति।
निगम-अध्यक्षः किशन-सूर्यवंशी इत्यस्य अनुसारं अस्मिन् सम्मेलने महिला-पार्षदाः सक्रिय-सहभागितां वहन्त्यः ‘नारी-शक्ति-वन्दन’ अधिनियमं तेन सम्बद्धान् प्रावधानान् च विषयीकृत्य मन्थनं करिष्यन्ति। सम्मेलनस्य उद्देश्यं महिलानां भूमिका, अधिकाराः तथा सहभागिता च अधिकं सुदृढं कर्तुं विचार-विमर्शं कर्तुम् अस्ति। प्रदेशे १० तः २५ अप्रैल-पर्यन्तं ‘नारी-शक्ति-वन्दन’ पखवाडः आयोज्यते, यस्य अन्तर्गतं विविधाः कार्यक्रमाः आयोज्यन्ते। नगरीय-प्रशासन-विभागेन सर्वेषां नगरीय-निकायानां कृते अस्य विषयस्य विशेष-सम्मेलन-आयोजनस्य निर्देशाः दत्ताः।
सम्मेलनस्य आरम्भः डॉ.भीमराव-अम्बेडकरस्य चित्रे पुष्पाञ्जलिं अर्पयित्वा भविष्यति। अस्मिन् अवसरि महापौरः मालती-राय, निगम-आयुक्ता संस्कृति-जैन तथा सर्वाः महिला-पार्षदाः उपस्थिताः सन्त्यः स्व-विचारान् प्रस्तोष्यन्ति। अयं सम्मेलनः महिला-नेतृत्वस्य सशक्तीकरणाय तथा स्थानीय-शासने तासां प्रभावी-सहभागितां सुनिश्चितुं महत्त्वपूर्णः प्रयत्नः इति मन्यते।
हिन्दुस्थान समाचार / अंशु गुप्ता