Enter your Email Address to subscribe to our newsletters


पटनानगरम्, १६ अप्रैलमासः (हि.स.)। बिहार-राज्यस्य नूतनः मुख्यमन्त्री सम्राट-चौधरी कार्ये प्रवृत्तः सन् गुरुवासरे प्रातः सचिवालयं प्राप्य सर्वेषां विभागानां प्रधान-सचिवैः सह महत्त्वपूर्णां सभां कृतवान्। अस्यां सभायां प्रशासनिक-स्तरे महत्त्वपूर्ण-निर्देशाः दत्ताः।
अपरतः जनता-दल-यूनाइटेड्-दलस्य कोटात् उपमुख्यमन्त्री विजय-चौधरी जल-संसाधन-विभागस्य पदभारं स्वीकृतवान् तथा विभागीय-कार्याणां निरीक्षणं कृतवान्।
उल्लेखनीयं यत् सम्राट-चौधरी बुधवासरे बिहारस्य २४तमः मुख्यमन्त्री इति शपथं गृहीतवान्। तेन सह विजय-चौधरी तथा बिजेन्द्र-यादवः अपि शपथं गृहीतवन्तौ। अद्यपर्यन्तं मन्त्रीमण्डल-विस्तारः न जातः। वर्तमान-व्यवस्थायां मुख्यमन्त्रिणः सम्राट-चौधरीणः गृहेण सह २९ विभागाः सन्ति, विजय-चौधरीणः १० विभागाः, बिजेन्द्र-यादवस्य ८ विभागाः च दत्ताः। मन्त्रिमण्डल-विस्तारानन्तरं विभागानां पुनर्वितरणं भविष्यति।
उपमुख्यमन्त्री विजय-चौधरी सेचन-भवने स्थिते जल-संसाधन-विभागे पदभारं गृहीत्वा विभागस्य कार्याणि अवलोकितवान्। तस्मै विभागीय-प्रधान-सचिवः सन्तोष-कुमार-मल्लः अन्ये च वरिष्ठ-अधिकारिणः पुष्पगुच्छेन स्वागतं कृतवन्तः।
हिन्दुस्थान समाचार / अंशु गुप्ता