Enter your Email Address to subscribe to our newsletters




गोरखपुरम्, 16 अप्रैलमासः (हि.स.)।
उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः गुरुवासरे प्रातःकाले गोरखपुरप्रवासस्य अवसरस्य अन्तर्गतं गोरक्षनाथमन्दिरे आयोजिते जनतादर्शने जनैः सह साक्षात्कारं कृत्वा तेषां समस्याः अशृणोत्।
अस्मिन् काले श्रावस्तिजनपदात् आगता एका महिला गम्भीररोगेण पीडितस्य स्वबालकस्य उपचारार्थं साहाय्यं याचितवती। तस्य बालकस्य स्थितिं दृष्ट्वा मुख्यमन्त्री भावुकः अभवत्। सः महिलां प्रति आयुष्मानकार्डस्य विषये अपृच्छत्। “न निर्मितम्” इति उत्तरं श्रुत्वा सः उक्तवान्— “मा चिन्तय, बालकस्य उपचारे कापि बाधा न भविष्यति। आयुष्मानकार्डं निर्मापयिष्यामः, विवेकाधीनकोषात् अपि आर्थिकसाहाय्यं दास्यामः।” ततः सः तस्याः प्रार्थनापत्रं गृहीत्वा उपस्थितान् अधिकारिणः आदेशितवान् यत् एतत् श्रावस्तिजनपदस्य जिलाधिकारिणे प्रेष्य आयुष्मानकार्डनिर्माणं क्रियताम्, तथा च उपचारव्ययस्य अनुमानः शासनाय प्रेष्यताम्।
गोरक्षनाथमन्दिरपरिसरे आयोजिते अस्मिन् जनतादर्शने मुख्यमन्त्री प्रायः द्विशताधिकैः जनैः सह मिलितवान्। महन्तदिग्विजयनाथस्मृतिभवनस्य समक्षं स्थापितासु आसन्दीषु उपविष्टानां जनानां समीपं स्वयम् गत्वा एकैकस्य समस्यां शृण्वन् तेषां प्रार्थनापत्राणि स्वीकृतवान्। सः समीपे स्थितेभ्यः अधिकारिभ्यः आवश्यकान् निर्देशान् दत्त्वा समस्यासमाधानस्य व्यवस्था कर्तुम् आदेशितवान्। विविधप्रकरणेषु सः सम्बन्धितप्रशासनिकपुलिसाधिकारिणः प्रति निर्देशितवान् यत् सर्वासां समस्याः समयबद्धरूपेण निष्पक्षतया च समाधानं प्राप्नुयुः।
जनतादर्शने सः अधिकारिणः प्रति उक्तवान् यत् जनसमस्यासु शीघ्रं संवेदनशीलता दर्शनीया। आगतान् जनान् आश्वासयन् सः अवदत्— “मा चिन्तयत, सर्वासु समस्यासु सरकारः प्रभावीकार्यवाहीं सुनिश्चितं करिष्यति।” अपराधसम्बद्धासु तथा भूम्यधिग्रहणसम्बद्धासु शिकायतासु सः पुलिसाधिकारिणः अपराधिनः भूमिमाफियाश्च प्रति कठोरकार्यवाहीं कर्तुम् आदेशितवान्।
अस्मिन् जनतादर्शने कतिपयाः महिलाः स्वबालकैः सह आगताः आसन्। मुख्यमन्त्री तान् बालकान् स्नेहेन आलिङ्ग्य चॉकलेट् दत्त्वा आशीर्वादं दत्तवान्।
---------------
हिन्दुस्थान समाचार