Enter your Email Address to subscribe to our newsletters

धमतरीनगरम्, १६ अप्रैलमासः (हि.स.)। जनपद-पञ्चायत-सभागृहे “सबकी-योजना–सबका-विकास” अभियानस्य अन्तर्गतं आयोजितायां कार्यशालायां ग्राम-विकासस्य नूतन-दिशा-निर्धारणाय मन्थनं कृतम्। अस्मिन् अवसरे जन-सहभागितायाः, पारदर्शितायाः समावेशी-विकासस्य च महत्त्वं प्रतिपादितम्।
उपायुक्तः अभिनाश-मिश्रः उक्तवान् यत् ग्रामेभ्यः एव विकासस्य मूलाधारः भवति, तथा जन-सहभागितया निर्मिताः योजनाः अधिकं प्रभावशालिन्यः स्थायिन्यश्च भवन्ति। सः ग्राम-सभानां सक्रियतां, पारदर्शितां तथा अन्तिम-जनपर्यन्तं लाभ-प्राप्तिं सुनिश्चेतुं आह्वानम् अकरोत्।
कार्यशालायां पंचायती-राज-मन्त्रालयस्य अस्य अभियानस्य उद्देश्यं ग्राम-सभाभिः ग्राम-पञ्चायत-विकास-योजनायाः (GPDP) निर्माणम् इति निरूपितम्। अस्मिन् सन्दर्भे निर्धनता-निवारणम्, स्वास्थ्यं, शिक्षा तथा सतत-विकास-लक्ष्याणि अपि प्रमुखतया चर्चितानि। प्रायः ३० ग्राम-पञ्चायत-प्रतिनिधिभिः ग्राम-स्थितिः, समस्याः, संभावनाश्च विवेचिताः।
समर्थन-फाउण्डेशन-इत्यस्य देवीलाल-दासः सामाजिक-मानचित्रणस्य उपयोगितां विवृण्वन् योजनानां सम्यक् निर्माणे तस्य महत्त्वं दर्शितवान्। १५-वित्त-आयोगस्य निधेः प्रभावी-उपयोगः अपि चर्चितः, विशेषतः मूलभूत-सुविधासु व्ययस्य प्राथमिकता निर्दिष्टा।
जनपद-पञ्चायत-सीईओ गजेन्द्र-सिंह-ठाकुरः उक्तवान् यत् पञ्चायताः ग्रामीण-विकासस्य मेरुदण्डाः सन्ति। एतत् अभियानं केवलं नारा न, अपि तु व्यवहार्य-कार्यपद्धतिः अस्ति। अन्ते सर्वेभ्यः अपेक्षा व्यक्ता यत् प्राप्त-ज्ञानस्य ग्रामेषु प्रयोगेण विकास-कार्याणि शीघ्रं प्रवर्धिष्यन्ते, तथा “सबकी-योजना–सबका-विकास” इति लक्ष्यं सिद्ध्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता