कोलकातायाः शततोऽधिक मतदान केंद्रेषु विद्युन्न , निर्वाचनायोगः दत्तवान् व्यवस्थायाः निर्देशम्
कोलकाता, 16 अप्रैलमासः (हि.स.)। पश्चिमबङ्गविधानसभानिर्वाचनम् २०२६ पूर्वं राजधानी कोलकाता नगरे शताधिकेषु मतदानकेन्द्रेषु विद्युत्सुविधाया अभावः दृष्टः, येन निर्वाचनआयोगस्य अधिकारिणः विस्मिताः अभवन्। आयोगेन सर्वेषां सम्बन्धितानां अधिकारिणां प्रति त्व
मुख्य चुनाव अधिकारी मनोज अग्रवाल


कोलकाता, 16 अप्रैलमासः (हि.स.)। पश्चिमबङ्गविधानसभानिर्वाचनम् २०२६ पूर्वं राजधानी कोलकाता नगरे शताधिकेषु मतदानकेन्द्रेषु विद्युत्सुविधाया अभावः दृष्टः, येन निर्वाचनआयोगस्य अधिकारिणः विस्मिताः अभवन्। आयोगेन सर्वेषां सम्बन्धितानां अधिकारिणां प्रति त्वरितव्यवस्थापनस्य निर्देशः दत्तः, यथा मतदानप्रक्रिया न बाध्येत।

आयोगेन स्पष्टतया उक्तम् यत् प्रत्येकस्मिन् मतदानकेन्द्रे मतदानसमये आधुनिकवेबकास्टिङ् व्यवस्था अनिवार्या अस्ति, किन्तु विद्युताभावे एषा व्यवस्था न सम्भवति। एतत् दृष्ट्वा जिलानिर्वाचनाधिकाऱिभ्यः निर्देशः दत्तः यत् ते शीघ्रं विद्युत्सम्प्रदानं सुनिश्चितं कुर्वन्तु। यत्र स्थायीविद्युत्सुविधा न सम्भवति, तत्र जनित्रयन्त्रस्य व्यवस्था करणीयाऽस्ति, यथा वेबकास्टिङ् न बाध्येत।

सामान्यतया ग्राम्यक्षेत्रेषु बहुषु मतदानकेन्द्रेषु विद्युत्समस्या दृश्यते, यस्य समाधानार्थं आयोगः पूर्वमेव विशेषनिर्देशान् दत्तवान्। तथापि कोलकाता इव नगरक्षेत्रे एतादृशी स्थिति अप्रत्याशिता मन्यते। अधिकांशे मतदानकेन्द्राणि विद्यालयेषु स्थाप्यन्ते, अतः एतेषां संस्थानां आधारभूतसंरचनायाः विषये राज्यसरकारस्य भूमिकायाः विषये अपि प्रश्नाः उद्भवन्ति। आयोगस्य एकेन अधिकारिणा उक्तम् यत् विद्यालयेषु विद्युत्सम्बन्धः सुनिश्चितः कर्तुं राज्यसरकारस्य दायित्वम् अस्ति, किन्तु अपेक्षितसुधाराः न कृताः इति कारणेन एषा समस्या उत्पन्ना।

सूत्रानुसारं सर्वाधिकाः विद्युत्विहीनाः मतदानकेन्द्राणि कोलकाता बन्दरगाहक्षेत्रे दृश्यन्ते, यत्र पञ्चाशताधिकेषु केन्द्रेषु विद्युत्सुविधा नास्ति। पूर्वं एतेषु केन्द्रेषु मतदानं कथं सम्पन्नम् आसीत् इति विषये अपि प्रश्नाः उद्भवन्ति। आयोगेन उक्तम् यत् अविच्छिन्नविद्युत्सम्प्रदाने विना वेबकास्टिङ् न सम्भवति। अपरं मतदानदिने बहुषु कक्षेषु वातायनानि अतिरिक्तद्वाराणि च निरुद्धानि भवन्ति, येन अन्तः अन्धकारः जायते। अतः सम्यक् प्रकाशव्यवस्था अनिवार्या, अन्यथा मतदानप्रक्रिया बाधिता भवितुम् अर्हति।

आयोगेन अपि निर्देशः दत्तः यत् प्रत्येकस्मिन् मतदानकेन्द्रे पेयजलशौचालयादिसुविधाः सुनिश्चिताः भवन्तु। केषाञ्चित् केन्द्रेषु एताः आधारभूतसुविधाः अपि न सन्ति इति शिकायताः प्राप्ताः। जिलानिर्वाचनाधिकाऱिभ्यः आगामीदिनेषु सर्वाः आवश्यकव्यवस्थाः पूरयितुं आदेशः दत्तः।राज्ये २३ तथा २९ अप्रैल दिनयोः द्वयोः चरणयोः मतदानं भविष्यति, मतगणना तु ४ मई दिने भविष्यति।

हिन्दुस्थान समाचार