Enter your Email Address to subscribe to our newsletters

प्रधानमन्त्री-नरेन्द्रमोदिनः ऑस्ट्रिया-देशस्य चान्सलर-क्रिश्चियन-स्टॉकरस्य च मध्ये नवदिल्ली-नगरे व्यापक-द्विपक्षीय-वार्ता सम्पन्ना। अस्यां वार्तायां उभयोः देशयोः सम्बन्धानां सुदृढीकरणाय व्यापारः, निवेशः, प्रौद्योगिकी, नवाचारः, हरित-ऊर्जा, शिक्षा, संस्कृतिक-आदान-प्रदानं तथा जन-संवादः इत्यादिषु विविधेषु क्षेत्रेषु सहयोग-विस्तारः विषये सहमतिः अभवत्।
विदेश-मन्त्रालयस्य अनुसारं रक्षाक्षेत्रे, कौशल-विकासे, आतंकवाद-निरोधे तथा नवीन-प्रौद्योगिक्यां सहकारार्थं १५ प्रमुख-परिणामाः प्राप्ताः। उभयोः पक्षयोः मध्ये सहकार्य-वृद्ध्यर्थं ६ सन्धि-पत्राणां विनिमयः अपि कृतः, येषु निवेश-सुविधा, खाद्य-सुरक्षा, ऑडियो-विजुअल-सह-उत्पादनं तथा रक्षासहयोगः प्रमुखाः सन्ति।
वार्तायां वैश्विक-क्षेत्रीय-विषयेषु अपि चर्चा कृता, विशेषतः आतंकवादस्य सर्वविध-निन्दा कृत्वा तस्य विरुद्धे संयुक्त-प्रयत्नानां प्रतिबद्धता पुनः पुष्टा। उभौ नेतारौ यूनां परस्पर-संपर्क-वृद्धये स्पेस-सेमिनार तथा वर्किंग-हॉलिडे-प्रोग्राम इत्यादिनां नूतन-प्रस्तावानां घोषणा अपि कृतवन्तौ।
हिन्दुस्थान समाचार / अंशु गुप्ता