Enter your Email Address to subscribe to our newsletters

--एतादृशी प्रतिभाः समाजस्य कृते प्रेरणा : डॉ कीर्तिका अग्रवालः
प्रयागराजः, 16 अप्रैलमासः (हि.स.)।प्रयागराज-नगरस्य चतुर्वर्षीया बालिका सत्या भारती अद्भुतं साहसं प्रतिभां च प्रदर्श्य केवलं २१ निमेषेषु ९०० मीटर-परिमितां दूरीं तर्त्वा यमुना-नदीं अतिरिच्य इतिहासं निर्मितवती। एतादृशी उपलब्धिः तस्या अल्पायुषि सम्पूर्ण-क्षेत्रस्य गौरवस्य विषयः अभवत्।
अस्याः असाधारण-उपलब्धेः अभिनन्दनार्थं नगरस्य प्रतिष्ठित-समूहस्य वात्सल्य-ग्रुपस्य निदेशिका डॉ कीर्तिका अग्रवाल इत्याख्या बालिकां सम्मानितवती तथा तस्याः उज्ज्वल-भविष्याय प्रशंसनीयां पहलम् अकरोत्।
गुरुवासरे डॉ कीर्तिका अग्रवाल इत्यया घोषणा कृता यत् सा एतस्याः प्रतिभाशालिन्याः बालिकायाः द्वादश-कक्षान्तं यावत् शिक्षां निःशुल्कतया वहिष्यति। अस्याः अन्तर्गतं बालिकायाः अध्ययनं प्रतिष्ठित-संस्थायां सेठ एम आर जयपुरिया-विद्यालये भविष्यति, यत्र उच्च-गुणवत्तायाः शिक्षा तथा उत्तमानि अवसराणि प्रदीयन्ते। तत्र तैराक्यर्थं स्विमिंग-पूलस्य अपि व्यवस्था अस्ति।
डॉ कीर्तिका अग्रवाल उक्तवती— “एतादृश्यः प्रतिभाः समाजस्य प्रेरणास्रोताः भवन्ति। अस्माभिः एतेषां बालानां प्रोत्साहनं करणीयम्। प्रतिभाशालिनां बालानां समर्थनं समाजस्य दायित्वं भवति, येन ते भविष्ये राष्ट्रस्य नाम उज्ज्वलयितुं समर्थाः भवन्ति।”
एषा पहल केवलं बालिकायाः स्वप्नानां नवाम् उड्डयनं दास्यति, अपितु समाजे शिक्षा-प्रतिभा-समर्थनस्य दृढं सन्देशम् अपि प्रसारयिष्यति।
सत्या भारत्याः मातापितरौ देवेंद्र तथा शिवानी उक्तवन्तौ यत् तेषां पुत्री बाल्यादेव असाधारण-प्रतिभायाः धनी अस्ति। तयोः मतम् यत् सत्या लघ्वायुषि एव स्वकीयं विशिष्टं स्थानं निर्मातुं आरब्धवती। सा प्रतिदिनं प्रातः सायं च विविधासु रचनात्मक-क्रियासु, क्रीडासु तथा साहसिक-कार्येषु उत्साहेन भागं गृह्णाति।
मातापितृभ्यां उक्तं यत् सत्यायाः नूतन-वस्तूनि ज्ञातुं जिज्ञासा आत्मविश्वासश्च आद्यादेव दृश्यते। सा प्रत्येकां चुनौतीं उत्साहेन स्वीकृत्य तस्याः पूर्तये निरन्तरं प्रयासं करोति।
परिवारस्य मतम् यत् यदि तस्या एवं प्रकारेण प्रोत्साहनं सम्यक् मार्गदर्शनं च लभ्यते, तर्हि सा भविष्ये अपि महानि कार्याणि साधयित्वा राष्ट्रस्य समाजस्य च नाम उज्ज्वालयिष्यति।
---------------
हिन्दुस्थान समाचार