Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, १६ अप्रैलमासः (हि.स.)। मध्यप्रदेश-राज्ये ओंकारेश्वर-तीर्थे मुख्यमंत्री डॉ.मोहन-यादवः शुक्रवासरात् आरभ्य पञ्चदिवसीयस्य “एकात्म-पर्व”-महोत्सवस्य शुभारम्भं करिष्यति। एषः महोत्सवः आदि-गुरु शङ्कराचार्यस्य दीक्षा-स्थली ओंकारेश्वरे, मान्धाता-पर्वत-स्थिते “एकात्म-धाम”-परिसरे आयोज्यते।अस्मिन् अवसरे अद्वैत-वेदान्तस्य दार्शनिक-चिन्तनस्य, सांस्कृतिक-चेतनायाः तथा आध्यात्मिक-ऊर्जायाः समागमः भविष्यति। देश-विदेशेभ्यः संताः, मनीषिणः तथा विद्वांसः सहभागं कृत्वा “एकात्मता”-विषये वैश्विक-सन्देशं दास्यन्ति।
मुख्यमन्त्रिणः द्वारा “अद्वैत-लोक” तथा “अक्षर-ब्रह्म” इत्येतयोः प्रदर्शिनी उद्घाट्येते, तथा वैदिक-अनुष्ठानेषु अपि सहभागः भविष्यति। कार्यक्रमे जगद्गुरु शङ्कराचार्य स्वामी सदानन्द-सरस्वती, पद्मश्री निवेदिता भिड़े इत्यादयः विशिष्ट-विद्वांसः सान्निध्यं दास्यन्ति।
अस्य महोत्सवस्य अन्तर्गतं अद्वैत-दर्शनस्य आधुनिक-विषयैः सह सम्बन्धः, यथा कृत्रिम-बुद्धिमत्ता, पर्यावरण-संरक्षणं तथा वैश्विक-शान्तिः इत्यादयः विषये विद्वत्-चर्चाः अपि भविष्यन्ति। सांस्कृतिक-सन्ध्यासु विविध-कलाकाराणां प्रस्तुतीकरणं च आयोज्यते, तथा २१ अप्रैल-मासे ७०० अधिकाः युवा “शङ्करदूताः” इति रूपेण दीक्षां ग्रहीष्यन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता