Enter your Email Address to subscribe to our newsletters

भोपालम्, 16 अप्रैलमासः (हि.स.)।
मध्यप्रदेश-राज्यस्य उच्च-तथा-प्राविधिक-शिक्षा-मन्त्री इन्दर सिंह परमार गुरुवासरे भोपाल-स्थिते स्व-निवास-कार्यालये “क्लाइमेट-चेंज-एण्ड-बायोडायवर्सिटी” इति विषयक-राष्ट्रिय-संगोष्ठीं प्रत्याधारित-पुस्तिकायाः विमोचनं कृतवान्। एषा पुस्तिका शासकीय श्यामाप्रसाद मुखर्जी विज्ञान एवं वाणिज्य महाविद्यालय भोपाले आयोजितेन वेबिनारेण सम्बद्धा अस्ति।
अस्मिन् अवसर्रे मन्त्री परमार महोदयः महाविद्यालयस्य शैक्षणिक-बौद्धिक-प्रयत्नानां प्रशंसां कृत्वा एतत् कार्यं विद्यार्थिनां शिक्षकाणां च कृते प्रेरणादायकं इति अभिहितवान्।
अस्मिन् कार्यक्रमे मप्र-हिन्दी-ग्रन्थ-अकादम्याः निदेशकः अशोक-कड़ेल, प्रवेश-शुल्क-विनियामक-समितेः अध्यक्षः डॉ रविन्द्र-कान्हेरे, महाविद्यालयस्य प्राचार्या डॉ शालिनी-सक्सेना, वनस्पति-शास्त्र-विभागस्य विभागाध्यक्षः डॉ कीर्ति-जैन, गणित-विभागस्य विभागाध्यक्षः डॉ राजेश-श्रीवास्तव, डॉ एस डी सिंह तथा डॉ एस के मल्होत्रा उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार