Enter your Email Address to subscribe to our newsletters

अररिया 16 अप्रैलमासः(हि.स.)।
अग्निशमन-सेवा-सप्ताहस्य अन्तर्गतं अररिया-जनपदे बुधवासरे अग्निशमन-विभागेन मैराथन-धावनस्य आयोजनं कृतम्। अस्य धावनस्य आरम्भः नूतन-पुलिस-केन्द्र-हरियावाडात् अभवत्, यत् मुडबल्ला-मध्य-विद्यालय-दक्षिणमार्गेण पुनः पुलिस-केन्द्र-हरियावाडं प्रति आगत्य समाप्तम्। अर्ध-त्रि-किलोमीटर-दीर्घे अस्मिन् धावने शताधिक-संख्यया प्रतिभागिनः भागं गृहीतवन्तः।
अस्य मैराथन-धावनस्य मुख्य-उद्देश्यः अग्नि-सुरक्षायाः विषये सामान्य-जनानां मध्ये जागरूकतां प्रसारयितुं तथा च आपत्कालीन-स्थितिषु जनान् सजगान् कर्तुम् आसीत्। अस्मिन् अवसरे जनपदस्य विविध-विभागानां वरिष्ठ-प्रशासनिक-अधिकारीणः तथा पुलिस-अधिकारीणः उपस्थिताः आसन्, येन मैराथन-धावनं ध्वज-प्रदर्शनपूर्वकं प्रेषितम्। विजेतारः विभागेन पुरस्कृताः।
अस्मिन् अवसरे जनपद-अग्निशमन-पदाधिकारी डॉ अशोककुमारप्रसादः अवदत् यत् पूर्वं अग्निशमन-विभागः केवलं अग्निकाण्डे अग्निं नियन्त्रयितुं कार्यं करोति स्म, किन्तु अधुना सः अग्नि-नियन्त्रणेन सह अग्निकाण्ड-निवारणार्थं जनान् अपि जागरूकान् करोति। एतस्य अन्तर्गतं अग्निशमन-सेवा-सप्ताहे जनपदे सर्वत्र विविध-कार्यक्रमाः आयोज्यन्ते, येन जनाः अग्निकाण्ड-निवारणाय सजगाः भवन्ति। तस्यैव प्रयोजनाय एषा मैराथन-धावना आयोजिताभूत्।
हिन्दुस्थान समाचार